SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ ] सिद्धान्तकौमुदी | [ अव्ययीभाव मध्येगङ्गात्,गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गाया भावसमासे सति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसकहस्वत्वे पारेगङ्गशब्दात् समासात् पुनः पञ्चम्युत्पत्तिः । 'अव्ययादाप्-' इति न लुक्, अदन्ततया 'नाव्ययीभावात् -' इति निषेधात् । पञ्चम्या इति पर्युदासादम्भावश्च नेति भावः । गङ्गापारादिति । षष्ठीसमासपक्षे ज्ञेयम् । मध्येगङ्गादिति । पारेगङ्गादितिवद्रूपम् । गङ्गामध्यादिति । षष्ठीसमासे ज्ञेयम् । पारे मध्ये इति सप्तम्यन्ते षष्ठ्या समस्येत इति व्याख्याने तु गङ्गायाः पारे मध्ये इति विग्रहे समासे सति 'तत्पुरुषे कृति बहुलम्' इति बहुलग्रहणात् सप्तम्योरलुकि नपुंसकहस्वत्वे समासात् पुनरुत्पन्नायाः सप्तम्या अम्भाव पारेमध्यं पारेगङ्गम् इति सिद्धेः एकारनिर्देशो व्यर्थः स्यात् । अतो यत्र सप्तम्यर्थो न संभवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम् । एतत्सूचनायैव पञ्चम्यन्तोदाहरणमिति बोध्यम् । ननु यदि वाग्रहणमिह पक्षे षष्ठीसमास प्राप्त्यर्थमेव स्यात्, तर्हि गङ्गाया मध्यादिति वाक्यं न स्यादित्यत आह- महाविभाषयेति । विभाषेत्यधिकृता महाविभाषा । सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेः महत्त्वं बोध्यम् । ननु अव्ययीभावसमासस्य षष्ठीसमासापवादत्वेऽपि तस्य महाविभाषया वैकिल्पकत्वात् तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव । तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात् तदभावपक्षे वाक्यमपि सिध्यत्येव । तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, उच्यते, 'यत्र उत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ज्ञापनार्थमिह वाग्रहणम् । तेन पूर्वं कायस्येत्यत्र एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति । दक्षस्यापत्यं दाक्षिरित्यत्र श्रत इञा मुक्ते 'तस्यापत्यम्' इत्यण् न भवति, किं तु वाक्यमेवेति भाष्ये स्पष्टम् । कृति बहुलम्' इति बहुलग्रहणादलुकापि सिद्धेः, अतोऽत्र सप्तम्यर्थाभाव सूचनाय पञ्चम्यन्तमुदाहरति — पारेगङ्गादिति । महाविभाषयेति । नन्वपवादेऽव्ययीभावे महाविभाषया विकल्पिते पक्षे तदुत्सर्गः षष्ठीतत्पुरुषः प्रवर्तते, तस्यापि विभाषाधिकारस्थत्वेन वैकल्पिकत्वात्पक्षे वाक्यमपि सिध्यतीति सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, अत्राहुः — महाविभाषया एकार्थीभावस्य पाक्षिकत्वे यदा एकार्थीभावस्तदा षष्ठीसमासं बाधित्वा नित्यमव्ययीभावे प्राप्ते पते षष्ठीसमाससमावेशार्थमिह वाग्रहणम् । व्यपेक्षा - सामर्थ्यमेके' इति पक्षे तु वृत्तावपि व्यपेक्षालक्षणमेव सामर्थ्यमिति वाक्यस्य निय प्रसक्ते तया वृत्तिर्विकल्प्यते । तथा चाव्ययीभावे विकल्पिते पूर्वोक्तरीत्या पक्षे तत्पुरुषस्तस्यापि वैकल्पिकत्वाद्वाक्यमपि सिद्धयत्येव, तथापि 'यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ज्ञापनायेदम् । तेन पूर्वकाय
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy