________________
प्रकरणम् १७] बालमनोरमा-तत्त्वबोधिनीसहिता।
[२३
दैोपलक्षितेत्यर्थः । ६७१ तिष्ठद्गुप्रभृतीनि च । (२-१-१७) एतानि निपात्यन्ते । तिष्ठन्ति गावो यस्मिन् काले स तिष्ठद्गु दोहनकालः। प्रायतीगवम्। इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते । इत्यादि । ६७२ पारे मध्ये षष्ठया वा।(२-१-१८) पारमध्यशब्दौ षष्टयन्तेन सह वा समस्येते। एदन्तस्वं चानयोनिपात्यते । पते षष्ठीतत्पुरुषः । पारेगङ्गादानय, गङ्गापारात् । वानुद्योत्यम् । तदाह-गङ्गादैयेति । तिष्ठद्गुप्रभृतीनि च । एतानीति । शब्दरूपाणीत्यर्थः । तिष्ठन्ति गाव इति । फलितार्थकथनम् । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गु इत्येव वक्तव्यम् , 'सुप्सुपा' इत्यनुवृत्तेः । दोहनकाल इति । तदा गवां शयनोपवेशनयोरभावादिति भावः । आयतीगवमिति । आयत्यो गावो यस्मिन् काले इति विग्रहः । इहेति । उदाहरणद्वय इत्यर्थः। शत्रादेश इति । तिष्ठन्त्यो गाव इति आयत्यो गाव इति च प्रथमासमानाधिकरणत्वाद् ‘लटश्शतृशानचौ-' इत्यप्राप्तौ तन्निपातनमिति भावः । पुंवद्भावेति । तिष्ठन्तीशब्दस्येव आयतीशब्द. स्यापि 'स्त्रियाः पुंवत्-' इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यत इति भावः । समासान्तश्चेति । आयतीगोशब्दस्य टच समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः । समासान्तश्चेति चकाराद् अव्ययीभावश्च निपात्यत इति ज्ञेयम् । तथा च तिष्ठद्गोशब्दस्य नपुंसकह्रस्वत्वम् । अव्ययत्वात् सुपो लुक् । आयतीगवशब्दात्तु 'नाव्ययीभावात्-' इत्यम्भाव इत्यादि फलति । इत्यादीति। खलेयवं खलेबुसम् इति सप्तम्या अलुग इत्यादि ग्राह्यम् । पारे मध्ये षष्ठया वा। पारे मध्ये इति न सप्तम्यन्तयोर्ग्रहणम् । किं तु पारमध्यशब्दयोरेवेत्याह-पारमध्यशब्दाविति । समस्यते इति । अव्ययीभावसंज्ञौ चेत्यपि बोध्यम् । ननु पारमध्यशब्दयोरकारान्तयोः ग्रहणे कथमेकारनिर्देश इत्यत आह-एदन्तत्वं चेति । ननु विभाषा इत्यधिकारादेव सिद्धे वाग्रहणं किमर्थमित्यत आह-पक्षे षष्ठीतत्पुरुष इति । वाग्रहणाभावेऽयमव्ययीभावसमासो विशेषविहित्वात् षष्ठीसमास बाधेत । तदबाधार्थ वाग्रहणमिति भावः । पारेगङ्गादानयेति । गङ्गायाः पाराद् इति विग्रहे अव्ययीप्रागुक्तरीत्या गङ्गामन्वित्युदाहार्यमित्याहुः । तिष्ठद्गुप्रभृतीनि च । चकार एक्कारार्थे । तेनैषां वृत्त्यन्तरं न भवति, परमतिष्ठद्गु इत्यादि न भवतीत्यर्थः । तिष्ठदग्विति । गोस्नियोः-' इति ह्रस्वः । प्रथमासमानाधिकरणे शत्रादेशस्यासंभवादाहइह शत्रादेश इति । इत्यादीति । आदिशब्देन खलेयवम् , खलेबुसम् । सप्तम्या अलुक् । लूनयवम्-लूयमानयवमित्यादि ग्राह्यम् । पारेमध्ये । निपात्यत इति। यत्र सप्तम्यर्थो न संभवति तदर्थमेकारान्तत्वनिपातनम् । सप्तम्यर्थसंभवे तु 'तत्पुरुषे