________________
२२]
सिद्धान्तकौमुदी।
[अव्ययीभाव
गत इत्यर्थः।६७० यस्य चायामः। (२-१-१६) यस्य दैर्घ्यमनुना द्योत्यते तेन लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्ध्यसदृशवनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम् , तदाह-वनस्य समीपंगत इत्यर्थ इति । वस्तुतो लक्षणीभूतस्य वनस्य समीपं गत इति यावत् । 'अव्ययं विभक्तिइत्यादिना सिद्धे विभाषार्थमिदं सूत्रम् । ततश्च वनस्यानु इति लौकिकविग्रहवाक्यमुदाहार्यम् । नात्र कर्मप्रवचनीयसंज्ञा शङ्कया, वस्तुसत एवात्र लक्षणत्वस्य निमित्तत्वाश्रयणात् । लक्षणत्वस्य निमित्तत्वे तु वनमनु इत्येव वाक्यमुदाहार्यम् । यस्य चायामः। लक्षणेनेत्यनुवर्तते । अनुरित्यनुवर्त्य आवर्त्य तृतीयया विपरिणम्यते । तत्र एक लक्षणेनेत्यत्र संबध्यते। द्वितीयं तु अनुनेत्येतद् 'यस्य चायामः' इत्यनन्तरं संबध्यते। द्योत्यत इति शेषः । श्रआयामो दैर्घ्यम् , तदाह—यस्य दैर्ध्यमिति । यदैर्घ्यसदृशं दैर्ध्यमित्यर्थः । समस्यत इति । सोऽव्ययीभाव इत्यपि बोध्यम् । अनुगङ्गमिति समासः । लौकिकविग्रहं दर्शयति-गङ्गाया अन्विति । इहापि लक्षणत्वं वस्तुसदेव निमित्तम् न त्वनुद्योत्यम् । अतो न कर्मप्रवचनीयत्वम् । द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम् । अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैर्ध्यसदृशं दैर्घ्य लक्ष्यते । तदेविभक्ति-' इत्यनेन सिद्ध विभाषार्थ सूत्रम् । तेन पक्षे 'वनस्यानु' इत्युदाहार्यमिति मनोरमायां स्थितम् । अत्र वदन्ति-वनस्येति षष्ठीह दुलेभा, कर्मप्रवचनीययुक्ते द्विती. याया दुरित्वात् , तत्सामर्थ्यात्समया लङ्कामितिवत्समासबाधे प्रसक्ते अस्य विध्यर्थत्वात्। न चायमनुः सामीप्यमात्रद्योतकः,न लक्ष्यलक्षणभावद्योतकश्चेति वाच्यम् , लक्षणेनेत्यनुवृत्तिवैयर्थ्यात् । न चैवमपि लक्षणमात्रद्योतकत्वं नास्तीति वाच्यम् , 'लक्षणेत्थम्-' इत्यत्र मात्रपदाभावात् । अग्निमभि, अमिं प्रतीति पूर्वसूत्रस्थोदाहरणप्रत्युदाहरणविरोधाच्च । अतोऽत्र पक्षे वनमनु इत्युदाहार्यम् । वनस्य समीपं गत इति मूलस्थं विवरणवाक्यं तु लक्षणभूतस्य वनस्य समीपं गत इति व्याख्येयमिति । अन्विति किम् , ग्राम समया । यत्समयेति किम् , वृक्षमनु विद्योतते विद्युत् । लक्षणेन किम् , अनुवनम् । उपकृष्णमितिवदत्र नित्यमव्ययीभावः । यस्य चा । इहानुरित्यनुवत्य आवृत्त्यैकं तृतीयान्तत्वेन विपरिणमय्य व्याचष्टे-अनुनेति । लक्षणभूतेनेति । लक्षणेनेत्यनुवर्तत इति भावः । अनुगङ्गमिति । इहायामोपलक्षणत्वं चानुना द्योत्यते, लक्ष्यं तु समासार्थः । अत एव वाराणस्या सामानाधिकरण्यम् । एवं स्थिते फलितमाहगङ्गादैर्येति । वाराणसीति । वरं च तदनश्च वरानः श्रेष्टोदकम् । 'अनः क्लीबं जले शोके मातृस्यन्दनयोर्द्वयोः' इति रुदरभसौ। तस्यादूरे भवा । 'अदूरभवश्च' इत्या , आदिवृद्धिः, 'पूर्वपदात्संज्ञायाम्-' इति णत्वम् । गङ्गाया अन्विति । समासाभावपक्ष