________________
प्रकरणम् १७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ २१
समस्यते, सोऽव्ययीभावः । श्रामुक्ति संसारः, श्रा मुक्तेः । आबालं हरिभक्तिः, श्रा बालेभ्यः । ६६८ लक्षणेनाभिप्रती श्रभिमुख्ये । (२-१-१४) श्राभिमुख्यद्योतकाभिप्रती चिह्नवाचिना सह प्राग्वत् । श्रभ्यग्नि शलभाः पतन्ति, अभिमभि । प्रत्यग्नि, अग्निं प्रति। ६६६ अनुर्यत्समया । (२-१-१५) यं पदार्थ समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते, सोऽव्ययीभावः । श्रनुवनमशनिर्गतः । वनस्य समीपं मुदाहरति — मुक्तीति । मुक्तेः प्रागित्यर्थः । अभिविधावुदाहरति — आबालमिति । बालानारभ्य इत्यर्थः । 'आङ् मर्यादावचने' इत्युभयत्रापि कर्मप्रवचनीयत्वात् ''पञ्चम्यपापरिभिः' इति पञ्चमी । लक्षणेनाभि । लक्षणेनेत्येतद्याचष्टे – चिह्नवाचिनेति । प्राग्वदिति । समस्येते सोऽव्ययीभाव इत्यर्थः । अभ्यग्नि शलभाः पतन्तीति । शलभाः क्षुद्रजन्तुविशेषाः स्थूलमक्षिकाः । अग्निमभीति । विग्रहोऽयम् । ‘अभिरभागे’ इति ‘लक्षणेत्थम् -' इति चाभिप्रत्योः कर्मप्रवचनीयत्वम्, अग्निज्ञाप्यं तदभिमुखं च शलभपतनमित्यर्थः । श्रनुर्यत्समया । लक्षणेनेत्यनुवर्तते । यदिति समयायोगे 'अभितः परितः -' इति द्वितीयान्तं सामान्ये नपुंसकम्, तदाहयं पदार्थमिति । श्रनुवनमिति । श्रत्र वनशब्दो वनसमीपदेशे लाक्षणिकः । र्थम् । 'ज्ञापकसिद्धं न सर्वत्र' इति 'करस्य करभो बहिः' इत्यपि सिद्धम् । आबालमिति । आ परमाणोरा च भूगोलकम्' इति किरणावली प्रयोगस्तु प्रामादिकः । समासमध्ये चशब्दप्रयोगासंभवात् । ' च भूगोलकात्' इति पाठस्तूचितः । लक्ष. रोना । 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरस्तदाह - चिह्नवाचिनेति । इहाभिप्रती लक्ष्यलक्षणभावम् श्रभिमुख्यं चेत्युभयं द्योतयत इति फलितम् । श्रग्निमभि । अग्निं प्रतीति । 'अभिरभागे' 'लक्षणेत्थंभूता-' इत्यनेन च अभिप्रत्योः कर्मप्रवचनीयत्वाद् द्वितीया । लक्षणेनेति किम् स्रुघ्नं प्रतिगतः । स्रुघ्नादागतस्तमेव प्रवृत्त इत्यर्थः । अत्र हि स्रघ्नः कर्म, न तु लक्षणम् । अभिप्रतीति किम्, येनाग्निस्तेन गतः । येन पथा अग्निर्गतस्तेन गत इति प्रतीतेर्भवति गमनस्याग्निर्लक्षणम् श्रभिमुख्यमप्यस्तीति येनतेनशब्दयोरग्निशब्देन समासः स्यात् । श्रभिमुख्ये किम् अभ्यङ्का गावः । प्रत्यङ्काः । अभिनवः प्रतिनवश्चाङ्क श्रासामिति बहुव्रीहिः । श्रङ्को ह्यत्र भवति गव लक्षणम्, ; श्राभिमुख्यं तु नास्ति । ननूत्सर्गत श्रव्ययार्थ प्राधान्येऽव्ययीभावस्वीकारात्कथमिह प्रसङ्गः । अत्राहुः - इह प्रकरणे बहुव्रीहिविषये श्रव्ययीभावो भवतीति ज्ञापनार्थमिदम् । तेन ‘संख्या वंश्येन, द्विमुनि व्याकरणमित्यादि सिद्धमिति । अनुर्यत्स । यदिति समयायोगे द्वितीयेति ध्वनयति-यं पदार्थमिति । यस्य पदार्थस्य समीप - 'मित्यर्थः । लक्षणेनेत्यनुवर्तत इत्याह- लक्षणभूतेनेति । चिह्नवाचिनेत्यर्थः । 'श्रव्ययं
>
ु
·
>
।