________________
२० ]
सिद्धान्तकौमुदी ।
[ श्रव्ययीभाव
६६६ अपपरिबहिरञ्चवः पञ्चम्या । ( २-१ -१२ ) अपविष्णु संसारः, अप विष्णोः । परिविष्णु, परि विष्णोः । बहिर्वनम्, बहिर्वनात् । प्राग्वनम्, प्राग्वनात् । ६६७ आङ् मर्यादाऽभिविध्योः । ( २-१-१३ ) एतयोराड् पञ्चम्यन्तेन वा निर्दिष्टत्वाभावेन उपसर्जनत्वाभावात् पूर्वनिपातनियमो न स्यात्, तदर्थमव्ययीभावादिविधिषु समासविधानं चरितार्थमिति वाच्यम्, 'प्रथमानिर्दिष्टम् -' इति सूत्रे समास इत्यस्य समासत्वव्याप्याव्ययीभावादिविधायके शास्त्रे इत्यर्थाभ्युपगमेन अव्ययादीनाम् उपसर्जनत्वसिद्धेर्वक्तुं शक्यत्वात् । तस्मादव्ययीभावादिविधिषु समासविधानं 'सुप्सुपा' इति समासस्य वैकल्पिकत्वं ज्ञापयतीति स्थितम् । 'आ कडारात् -' इति सूत्रे 'सुप्पा' इति समासविषये 'विस्पष्टं पटुर्विस्पष्टपटुः' इति विग्रहप्रदर्शनपर भाष्यं चेह लिङ्गमित्यलं बहुना । एवं च 'इवेन समासः -' इत्यादि वैकल्पिकमिति सिद्धम् । यद्यपि नित्यसमासाधिकारे 'कुगति -' इत्यत्रापि इवेनेति वार्तिकं पठितम् तथापि 'सुप्सुपा' इत्यत्र पठितमेव तत्रापि स्मार्यत इति कैयटः ।
,
अपपरिबहिः । समस्यते सोऽव्ययीभाव इति शेषः । अपविष्विति । अत्र अप इत्यव्ययं वर्जने । विष्णुं वर्जयित्वा संसरणमित्यर्थः । अप विष्णोरिति । लौकिकविग्रहवाक्यम्, समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाभावात् । 'पपरी वर्जने' इति श्रपेत्यव्ययस्य कर्मप्रवचनीयत्वात् तद्योगे पञ्चम्यपापरिभिः' इति पञ्चमी । तदन्तेन अपेत्यस्याव्ययीभावसमासः, सुब्लुकं । प्रपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । समासात् सुबुत्पत्तिः । 'अव्ययादाप्सुपः' इति लुक् । एवं यथायथमग्रेऽपि ज्ञेयम् । परिविष्णिवति । अत्रापि परिवर्जने । पञ्चम्यादि पूर्ववत् । बहिर्वनम् बहिर्वनादिति । श्रस्मादेव ज्ञापकाद् बहिर्योगे पञ्चमी । इतरत् पूर्ववत् । श्रदन्तत्वादम्भावः । प्राग्वनम्, प्राग्वनादिति । श्रञ्चूत्तरपदयोगे पञ्चमी । आङ् मर्यादाभिविध्योः । एतयोरिति । मर्यादाभिविध्योः विद्यमान इत्यर्थः । मर्यादाया
सिद्धम् । 'इवेन -' इति वार्तिकं तु यद्यपि 'कुगति-' इत्यत्र पठ्यते, तथापि 'सुप्सुपा' इत्यत्रत्यमेव नित्याधिकारे स्मारितमिति कैयटः । एवं स्थिते 'उद्वाहुरिव वामनः' इत्यादि - लोकप्रयोगसिद्धये इवेन समासस्य छन्दोविषयकत्वं कल्पयन्तः प्रत्युक्ताः । छन्दस्यपि तत्समासस्य नित्यत्वानभ्युपगमात् । जीमूतस्येवेत्यत्र हि बहूवचैः समासाभ्युपगमेऽपि तैत्तिरीयैर्व्यस्तस्यैव पाठात् । एतच्च मनोरमायां स्थितम् । श्रपपरिबहि । अपपरियोगे 'पञ्चम्यपाड्परिभिः' इति पञ्चमी विहिता, अञ्चूत्तरपदयोगेऽपि 'अन्यारात् -' इत्यादिना विहितैव । तेनात्र 'पञ्चम्या' इति ग्रहणं 'बहिर्योगे पञ्चमी भवति' इति ज्ञापना
1