________________
प्रकरणम् १७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ १६
( २ - १ - ११ ) अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचानानां नित्यसमासत्वम् । 'सुसुपा' इति तु न नित्यसमासः । श्रव्ययम् इत्यादिसमासविधानाज्ज्ञापकात् । त्रिपरि इत्यादि । विभाषा । अधिकारोऽयमिति । ततश्च उत्तरत्र समासविधिषु एतदनुवर्तत इति लभ्यते । ननु 'प्राक्कडारात् समासः' इत्यत ऊर्ध्वं 'सह सुपा' इत्यतः प्रागेव कुतो विभाषाधिकारो न कृत इंत्यत आह - एतत्सामर्थ्यादिति । मध्ये विभाषाधिकारपाठसामर्थ्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः । यद्यपीतः प्राचीनानां विकल्पे प्रमाणाभावादेव नित्यत्वं सिद्धम् । तथापि तस्यैव लिङ्गेन दृढीकरणमिति बोध्यम् । नन्वेवं सति 'सुप्सुपा' इत्यपि नित्यसमासः स्यात् । ततश्च पूर्वं भूतः इति लौकिकविग्रहवाक्यमनुपपन्नं स्यात् । 'सुप्सुपा' इति विषये विस्पष्टं पटुः विस्पष्टपटुरिति विग्रहप्रदर्शनपरम् 'श्रा कडारात् -' इति सूत्रस्थभाष्यमपि विरुध्येतेत्यत आहसुप्सुपेति तु न नित्यसमास इति । कुत इत्यत आह - अव्ययमित्यादीति । 'आ कडारात्' इत्येव सिद्धे 'प्राक्कडारात्' इति प्राग्ग्रहणं समाससंज्ञाया श्रव्ययीभावादिसंज्ञासमावेशार्थम् । अन्यथा एकसंज्ञाधिकारात् पर्यायः स्यादिति 'श्रा कडारात् -' इति सूत्रे भाष्ये स्थितम् । तत्र 'अव्ययं विभक्ति - ' इत्याद्यव्ययीभावादिविधिषु 'सुप्सुपा' इति समासमनूद्य नाव्ययीभावादिसंज्ञा विधेयाः । 'उपपदमतिङ्' 'कर्तृकरणे कृता बहुलम्' 'आख्यातमाख्यातेन क्रियासातत्ये' इत्यादौ सुबन्तस्य सुबन्तेन समासस्य उद्देश्यस्याप्रसिद्धेः । अतस्तेषु समासविधानस्यावश्यकत्वाद् अर्थाधिकारानुरोधात् सर्वत्र समा इत्यनुवृत्तं विधेयसमर्पकमित्यास्थेयम् । तत्र 'सुप्सुपा' इत्येव सिद्धे 'अव्ययं विभक्ति-' इत्याद्यव्ययीभावादिविधिषु समाससंज्ञाविधानं व्यर्थ सत् ततः प्राचीनविधेवैकल्पिकत्वं ज्ञापयति । न चाव्ययीभावादिविधिषु समासविध्यभावे अव्ययादीनां समासशास्त्रे प्रथमा
-
विभज्य व्याचष्टे – विभाषेति । इतः प्राचीनानां समासानां विघुभादिसंज्ञानामिव वाग्रहणाभावान्नित्यत्वं न्यायत एव सिद्धम्, तच्च लिङ्गेनापि द्रढयति - एतदिति । नन्वेवं 'सुप्सुपा' इत्यपि नित्यं स्यात्, इष्टापत्तौ तु 'पूर्वं भूतो भूतपूर्वः सुप्सुपेति समासः' इति वृत्तिग्रन्थो विरुध्येत । तथा शाकलसूत्रे 'सिन्नित्यसमासयोः शाकलप्रतिषेधः' इत्यत्र 'नित्यग्रहणेन नार्थः, इदमपि सिद्धं भवति वाप्यामश्वो वाप्यश्वः' इति भाष्यं कैयटो व्याख्यत् - 'वाप्यश्व इति 'सुप्सुपा' इति समासः, 'संज्ञायाम्' इति सप्तमीसमासस्य तु नित्यत्वात्सिद्धः प्रतिषेध इति, सोऽपि ग्रन्थो विरुध्येतेत्याशङ्कायामाह – सुप्लुपति त्विति । नन्वत्र किं प्रमाणमित्यत आह-अव्ययमित्यादीति । सुप्सुप्रत्ययेनैव सिद्धे समासे ‘अव्ययम् -' इत्यादिसूत्रैः पुनः समासविधानं प्राचीनस्य क्वाचित्कतां ज्ञापयतीत्यर्थः । एवं च इवेन समासत्यापि काचित्कत्वाद् 'उद्वाहुरिव वामनः' इत्यादि