________________
१८]
सिद्धान्तकौमुदी ।
[ अव्ययीभाव
,
अक्षशलाकासंख्याः परिणा । ( २-१-१०) द्यूतव्यवहारे पराजय एवायं समासः । श्रक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि । ६६५ विभाषा । न च 'लक्षणेत्थम् -' इति कर्मप्रवचनीयत्वविधानसामर्थ्यादेवाल समासो न भविष्यति, सति समासे द्वितीयायाः षष्ठ्या वा लुकि अविशेषात् सकृत्प्रवृत्ततया समासात्तद्विभक्त्यनुत्पत्तेरिति वाच्यम्, वृक्षं प्रति सिञ्चति इत्यादौ ' उपसर्गात् सुनोति -' इति षत्वनिवृत्त्या कर्मप्रवचनीयत्वस्य चरितार्थत्वादित्यन्यत्र विस्तरः । अक्षशलाका । समस्यन्ते सोऽव्ययीभाव इति शेषः । द्यूतव्यवहार इति । वार्तिकमिदम् । इदं द्यूतं तावत् पञ्चभिः अक्षैः शलाकाभिर्वा भवति । यदि अक्षाः शलाका वा कृत्स्ना उत्ताना अवाञ्च वा पतन्ति, तदा पातयिता जयति । अन्यथा पराजयत इति स्थितिः । श्रक्षेणेति । कर्तरि तृतीया । विपरीतं वृत्तमित्यत्र वृतेर्भावे क्तः । विपरीतमिति क्रियाविशेषणम् । जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः । शलाकापरीति । शलाकया विपरीतं वृत्तमिति भावः । एकपरीति । एकेन विपरीतं वृत्तमित्यर्थः । एवं द्विपरि न्येव मात्रार्थे प्रतिना समस्येरन् तथा च दिवसस्य लेशो दिवाप्रति दोषाप्रतीत्यादीनामेवोदाहरणत्वं संभाव्येतेति । वृक्षं प्रतीति । ननु लक्षणादौ प्रतेः कर्मप्रवचनीयसंज्ञाविधानसामर्थ्याद् द्वितीयागर्भ वाक्यमेव स्यात्, न तु समासः, तस्य लेशार्थे सावकाशत्वादिति चेत् । मैवम् वृक्षं प्रति सिञ्चन्तीत्यादौ षत्वनिवारकत्वेन कर्मप्रवचनीयसंज्ञाविधानस्य चरितार्थत्वान्मात्रार्थग्रहणाभावे लक्षणादावप्यनेन समासप्रसङ्गात् । वीप्सायामव्ययीभावे तु प्रत्यादेः पूर्वनिपातत्वे प्रत्यर्थं सिञ्चन्तीत्यादौ षत्वाप्रसक्त्या कर्म - प्रवचनीयविधानस्याचरितार्थतया तत्सामर्थ्याद् द्वितीयागर्भं वाक्यमपीत्युक्तं मूलकृता 'अव्यये विभक्ति -' इति सूत्रे । अत्र नव्याः – प्रत्यर्थमित्यव्ययीभावे वीप्सायां द्योतक - त्वेन विद्यमानमव्ययं समस्यते । वीप्साद्योतकस्य यदि कर्मप्रवचनीयसंज्ञाविधिः स्वीक्रियते, तदापि प्रतिस्तवनं प्रतिस्थानमित्यादौ षत्वनिवारणाय प्रतीत्यस्य कर्मप्रवचनी - यसंज्ञा चरितार्थैव । वस्तुतस्तु वीप्सायां विषयभूतायां प्रत्यादेः कर्मप्रवचनीयसंज्ञा, न तु वीप्साद्योतकस्यैव । अन्यथा वृक्षं वृक्षं प्रति सिचन्तीत्यत्र 'द्विर्वचनेनैव वीप्सा द्योत्यते । प्रतिशब्दस्तु क्रियया संबध्यते । कर्मणि द्वितीया । कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् षत्वं न' इत्यादिमनोरमाग्रन्थो ' लक्षणेत्थंभूता -' इति सूत्रस्थो दत्तजलाञ्जलिः स्यात् । ततश्च संज्ञाविधानसामर्थ्यस्योपक्षीणत्वाद् अर्थमर्थं प्रतीत्यादिभाष्यप्रयोगादेव द्वितीयागर्भ वाक्यमपि भवतीत्येवं व्याख्येयमित्याहुः । पराजयं द्योतयितुमाहविपरीतं वृत्तमिति । पूर्वं जये यथा वृत्तं तथा न वृत्तमित्यर्थः । एकपरीति । एकेन विपरीतं वृत्तमित्यर्थः । एवं द्विपरीत्यादि - ' विभाषापपरिबहिर् -' इति योगं
"
1