________________
प्रकरणम् १७ ]
बालमनोरमा-तत्वबोधिनीसहिता ।
[ १७
हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन 'सादृश्य' इति वा 'यथार्थ' इति वा प्राप्तं निषिध्यते । ६६२ यावदवधारणे । ( २-१-८ ) यावन्तः श्लोकास्तावन्तो ऽच्युतप्रणामा यावच्छ्लोकम् । ६६३ सुप्प्रतिना मात्रार्थे । (२-१-१) शाकस्य लेशः शाकप्रति । मात्रार्थे किम्-वृक्षं वृक्षं प्रति विद्योतते विद्युत् । ६६४ ल्प्रत्यान्तस्य कथं सादृश्ये वृत्तिरित्यत आह- हरेरिति । सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन् प्रकारे थालिति 'प्रकारवचने थाल' इत्यस्यार्थः । ततश्च यद्विशेषधर्मवान् हरिः तद्विशेषधर्मवान् हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोः अभेदावगमाद् उपमानत्वप्रतीतिरिति भावः । तेनेति । प्राप्तमित्यत्रान्वयः । सादृश्यार्थकत्वेनेत्यर्थः । सादृश्य इति वेति । 'अव्ययं विभक्ति -' इति सूत्रगतेन सादृश्य वर्त - मानमव्ययं समस्यत इत्यंशेन वा यथार्थे विद्यमानमव्ययं समस्यत इत्यंशेन वा प्राप्त - मव्ययीभावसमासकार्यं निषिध्यत इति भावः । भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृश्येत्यनेनैव प्राप्तिरुक्ता, न तु यथार्थत्वेन प्राप्तिरुक्ता । यथाशब्दस्य सूत्रगृहत्विन तद्योगे यथार्थैत्यप्रवृत्तेरिति तदाशय इति शब्देन्दुशेखरे विस्तरः । यावदवधारणे । इयत्तापरिच्छेद गम्ये यावदित्यव्ययं समस्यते । सोऽव्ययीभाव इत्यर्थः । यावन्त इति । यत् परिमाणे येषामिति विग्रहे 'यत्तदेतेभ्यः परिमाणे वतुप्' इति वतुप्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेन स्वपदविग्रहौचित्यात् । अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । इयद् भुक्तमिति नावधारयतीत्यर्थः । सुप्रतिना मात्रार्थे । सुबिति छेदः । माता लेशः । तस्मिन्नर्थे विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः । सुबित्यनुवर्तमाने पुनः सुग्रहणं संनिहितस्याव्ययमित्यस्याननुवृत्त्यर्थम् । तद् ध्वनयन्नुदाहरति — शाकस्य लेशः शाकप्रतीति । अत्र प्रतीत्यव्ययं मात्रार्थकम् । अतस्तेन शाकस्येति सुबन्तस्य समासः । समासविधौ सुबन्तस्य प्रथमानिर्दिष्टत्वेन उपसर्जनत्वापूर्वनिपातः, न तु प्रतेः, तस्य समासविधौ तृतीयानिर्दिष्टत्वात् । वृक्षं वृक्षं प्रतीति । अत्र प्रतेः मात्रार्थकत्वाभावाद् न तेन समासः । विपरीतोच्चारणं नञः श्लेषलाभार्थमिति व्याचष्टे - सादृश्य इति । यावन्त इति । यत्परिमाणमेषां ते । ‘यत्तदेतेभ्यः -' इति वतुप् । यावच्लोकमिति । यावदित्यव्ययं समस्यते, विग्रहस्तु तद्धितान्तेनेत्यस्वपदविग्रहत्वमस्त्येव । अवधारणे किम्, यावद्दत्तं तावद्भुक्तम्, कियद् भुक्कं वा नावधारयतीत्यर्थः । सुप्प्रतिना । सुबित्यनुवर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थमिति ध्वनयन्नुदाहरति — शाकप्रतीति । नन्वारम्भसामर्थ्यादव्ययभिन्नमेव सुप्समस्यत इति चेत्, अत्राहुः - पुनः सुब्ग्रहणाभावे दोषामन्यमहः, दिवामन्या रात्रिरिति वृत्तिविषये सत्त्वप्रधानतादर्शनात्तादृशान्यया.