________________
१६ ]
सिद्धान्तकौमुदी ।
[ अव्ययीभाव
रिति भेदः । तृणमप्यपरित्यज्य सतृणमन्ति । साकल्येनेत्यर्थः । न त्वत्र तृणभक्षणे तात्पर्यम् । अन्ते-अभिग्रन्थपर्यन्तमधीते सानि । ६६१ यथाऽसादृश्ये । ( २-१-७ ) असाहश्य एव यथाशब्दः समस्यते । तेनेह न यथा हरिस्तथा अनुरूप इति । अनुरूपो योग्य आत्मभावः, स्वोचितं कर्मेति यावत् । तृणमप्यपरित्यज्य सतृणमन्तीति । 'परावरयोगे च' इति क्त्वा । परावरत्वं बौद्धमेव । सहशब्दोऽत्रापरिवर्जने वर्तते । न तु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत आह – साकल्येनेत्यर्थ इति । पात्रे परिविष्टं सकलं भक्षयतीति यावत् । न त्वत्रेति । तृणभक्षणस्याप्रसक्तेरिति भावः । श्रन्त इति । उदाहरणं वक्ष्यत इति शेषः । सूत्रे अन्तशब्देन श्रन्तावयवसाहित्यं विवचितमित्यभि - प्रेत्योदाहरति-अग्निग्रन्थपर्यन्तमधीते सानीति । श्रभिशब्देन श्रभिचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनान्तावयवेन सहितं ग्रन्थमिति विग्रहः । श्रभिग्रन्थपर्यन्तमिति बहुव्रीहिः । ग्रन्थमिति अन्यपदार्थाध्याहारः । अधीत इति तु न समासप्रविष्टम् । अन्तावयवेन श्रभिग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीत इत्यर्थः । अत्र कृत्स्नस्यानध्येतव्यत्वाद् श्रभिमन्थपर्यन्ताध्ययने तत्कात्स्न्यनवगमात् साकल्यात्पृथगुक्तिः । यथाऽसादृश्ये | असादृश्य इति छेदः, व्याख्यानात् । श्रसादृश्ये योग्यतावीप्सापदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यत इत्यर्थस्य यथार्थत्वादेव सिद्धेः नियमार्थमिदमित्याह--असादृश्य एवेति । ननु 'प्रकारवचने थाल्' इति विहितथास्यात्,अव्ययार्थप्राधान्यस्याव्ययीभावे औत्सर्गिकत्वादिति भावः । श्रन्त इति । इदानी
तावान् प्रदशोऽध्येतव्य इति यावतो ग्रन्थ प्रदेशस्य परिग्रहः कृतस्तदपेक्षा समाप्तिरिहान्तशब्देन विवक्षिता, सा चासकलेऽप्यध्ययने भवतीति साकल्यात्पृथगुच्यते । साग्नीति | अग्निशब्दस्तत्प्रतिपादकग्रन्थे वर्तते, स च तृतीयान्तो नित्यं समस्यते । न चैवमग्निना सहेति प्रयोगो दुर्लभ इति वाच्यम्, साहित्यमात्रस्य विवक्षायां तत्प्रयोगस्योपपत्तेः । अन्तत्वविवक्षायां तु समासस्य नित्यत्वादग्निग्रन्थपर्यन्तमित्यस्वपदविग्रहो दर्शितः । यत्तु केचित् - अग्निरन्तोऽस्येति प्रथमान्तेनाग्नेरन्तत्वमिति षप्तपन्तेन वा विग्रहः, समासोऽपि प्रथमान्तेन षष्ठयन्तेन वेत्याहुः, तन्न, सहशब्दस्यान्तवाचकत्वाभावादन्तत्वस्य तु सुतरामलाभात्, सहयुक्ते तृतीयाया न्याय्यत्वाच्च सतृणमतीत्यत्र साकल्यस्येव सानीत्यत्रान्तत्वस्यापि साहित्यद्योत्यतया तत्र तृतीयान्तेन समासं स्वीकृत्य इह तत्परित्यागस्य निष्प्रमाणत्वाच्च । श्रत्रेदं बोध्यम् —' तदधीते-' इत्यध्येतृप्रत्ययस्य वैकल्पिकत्वात्साम्ग्नीत्यत्राण् नोक्तः । कृतेऽप्यध्येrणि 'सर्वादेः सादेश्व लुग्वक्तव्यः' इति वदयमाणत्वात्सामीत्येव रूपमिति । यथाऽसा । निःसंदेहाय 'सादृश्ये यथा' इत्येव वक्तव्ये