________________
प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ १५
द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वच्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे६६० अव्ययीभावे चाकाले । ( ६-३-८१ ) सहस्य सः स्यादव्ययीभावे, नै तु काले । सचक्रम् | काले तु सहपूर्वाहम् । सदृशः सख्या ससखि । यथार्थस्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां संपत्तिः सक्षत्रम् । ऋद्धेराधिक्यं समृद्धिः, अनुरूप आत्मभाव: संपत्तिभाष्ये प्रयोगदर्शनाद् इह वैकल्पिकसमास इति तत्त्वम् । शक्तिमनतिक्रम्य यथाशक्तीति । 'परवरयोगे च' इति क्त्वाप्रत्ययः । परावरत्वं च बौद्धम् । अत्र यथेत्यव्ययं पदार्थानतिक्रमे वर्तत इत्यर्थः । हरेः सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणेनेति । 'अव्ययीभावे चाकाले' इत्यनेनेत्यर्थः । ज्येष्ठस्यानुपूर्व्यणेत्यनुज्येष्ठमिति । कार्यं कृतमिति शेषः । तत्तद्विभक्त्या विग्रह इति पक्षाभिप्रायेणेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वम्, ततः स्वार्थे ष्यञ् । यद्यपि एतत्सूत्रगृहीताव्ययेन समास नेत्यनुपदमेवोक्तम्, तथापि सूत्रगृहीतानुनाप्यनुज्येष्टमिति समासः, अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छब्दात् स्वार्थे ष्यञ् यौगपद्यशब्दः । तद् ध्वनयनाह - चक्रेण युगपदिति । युगपत्पयार्यस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः, सूत्रे गृहीतत्वादिति भावः । अव्ययी· भावे । सहस्य सः स्यादिति । 'सहस्य सः संज्ञायाम्' इत्यतः तदनुवृत्तेरिति भावः । न तु काल इति । कालवाचके परे सहस्य सो नेत्यर्थः । सचक्रमिति । चक्रेण युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्णमिति । समीपादौ अव्ययीभावः । सूत्रे सादृश्येति स्वार्थे ष्यञ् । तद् ध्वनयन्नाह – सदृशः सख्या ससखीति । सहेत्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थ्येनाव्ययार्थप्राधान्य एव समासप्रवृत्तेः गुणीभूतसादृश्य प्राप्त्या तद्ग्रहणमिति भावः । क्षत्राणां संपत्तिः सक्षत्रमिति । क्षत्रियाणामनुरूपं कर्मेत्यर्थः । सहेत्यव्ययमत्र संपत्तौ वर्तत इति भावः । संपत्तिसमृद्धिशब्दयोः पौनरुक्त्यं परिहरति — ऋद्धेरिति । धनधान्यादेरित्यर्थः । तन्न, नित्यसमासेषु ‘सविशेषणानां वृत्तिर्न' इत्यस्याप्रवृत्तेः । आनुपूर्व्येणेति । अनुपूर्वस्य भाव आनुपूर्व्यम्, ब्राह्मणादित्वात् ष्यञ् । चक्रेण युगपदिति । अत्र केचित्युगपञ्चकमिति समासेनैव भवितव्यम्, युगपच्छब्दस्याप्यव्ययत्वात्, किंतु 'चक्रेणैककाले' इत्यादि विग्रहीतुमुचितमित्याहुः । सहपूर्वाह्णमिति । साकल्येऽव्ययीभावः । गुणभूतेऽपीति । यदि सादृश्य इति नोच्यते, तर्हि यत्र सादृश्यं प्रधानमवगम्यते तत्रैव १यद्यपि 'यद्यपि' इति क्वचिदपि नास्ति तथापि उत्तरत्र ' तथापि' इति दर्शनादू अस्माभिर्निवेशितम् ।