________________
१४ ]
सिद्धान्तकौमुदी। [अव्ययीभाव. शब्दस्य प्रकाश इतिहरि । वियोः पादनुविष्णु । पमानन्दस्य तु नायं समासः, 'ततः पश्चात्त्रस्यते ध्वंस्पते' इति भाट्यप्रयोगात् । योग्यतावीप्सापदा
नतिवृत्तिसारयानि यथार्थाः । अनुरूपम् , रूपस्य योग्यमित्यर्थः । अर्थमर्थ प्रति प्रत्यर्थम् । प्रतिराब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामोत्तयोगे
प्रकाशन विवक्षितम् , तदाह-हरिशब्दस्य प्रकाश इतिहरि इति । इतीत्य. व्ययं शब्दप्रकाशे वर्तते। तस्य हरिशब्देन स्वरूपपरेण षष्ठ्यन्तेन समास इति भावः । विष्णोः पश्चादनुविष्णुइति। अनु इत्यव्ययं पश्चादर्थे वर्वत इत्यर्थः।भाष्येति। 'अचः परस्मिन्-' इति सूत्रभाष्य इत्यर्थः । ततः पश्चात्' इत्यत्राव्ययीभावे तु पश्चाच्छन्दस्य पूर्वनिपातः स्यादिति भावः । एतद्भाष्यप्रयोगादेव एतत् सूत्र तत्तदर्थबोधकपदघटकतया गृहीताव्ययेन तत्तदर्थकेनायं समासो नेति विज्ञायते । अत एव 'यथाऽसादृश्ये' इति सूत्रे सादृश्यसंपत्तीति प्राप्नोतीत्येवोक्तं भाष्ये । यथाशब्देन तु भवत्येव समासः, उत्तरसूत्रारम्भात् । सूत्र यथाशब्देन तदर्थो लक्ष्यते । यथार्थे विद्यमानमव्ययं समस्यत इति लभ्यत इत्यभिप्रेत्याह-योग्यतेति। अनुरूपमिति। अत्रानु इत्यव्ययं योग्यतायाम् , अतो यथार्थे वर्तत इति भावः । अर्थमर्थ प्रतीति । लौकिकविग्रहवाक्यम् । अत्र वीप्सायां द्विवचनम् । 'लक्षणेत्यंभूताख्यान-' इति वीप्सायां द्योत्यायां प्रतेः कर्मप्रवचनीयत्वात् तद्योगे द्वितीया । समासे तु द्विवचनं न, समासेन वीप्साया घोतितत्वाद् इति 'हयवरट्' इति सूत्रे कैयटः । प्रतिना तस्योकत्वादिति तु तत्त्वम् । नन्वर्थमर्थ प्रतीति लौकिकविग्रहप्रदर्शनं न संभवति । नित्यसमासत्वादित्यत आह-प्रतिशब्दस्येति । सामर्थ्यादिति । अध्ययीभावसमासस्य नित्यत्वं तु शेषषष्ठ्यामपि अव्ययीभावे सुब्लुकि समासात् सर्वविभक्तीनामम्भावे तद्विकल्पे च प्रत्यर्थ प्रत्यर्थेनेत्यादिसिद्ध द्वितीयाफलकं प्रतेः कर्मप्रवचनीयत्वविधानमनर्थकं स्यादिति भावः । वस्तुतस्तु प्रतिस्थानमित्यादौ 'उपसर्गात्सुनोति-' इति षत्वाभावसंपादनेन कर्मप्रवचनीयत्वं चरितार्थमेव । 'अर्थमर्थ प्रति प्रत्यर्थम्' इति 'सरूपाणाम्-' इति सूत्रे
कश्चिदभ्युपैति, येनात्र वर्तमानकालनिषेधो युक्त्यर्हः स्यात् । इतिहरीति । स्वरूप. परे षष्ठयन्तेन हरिशब्देन सह प्रकाशार्थस्येतिशब्दस्य समासः । ततः पश्चादिति। सति चात्राव्ययीभावे पश्चाच्छब्दस्य पूर्वनिपातः स्यादिति भावः । भाष्यप्रयोगादिति । 'अनेकमन्यपदार्थे' इति सूत्रे 'सर्वपश्चात्' इति भाष्यप्रयोगाचेत्यपि बोध्यम् । प्रत्यर्थमिति । वृत्तौ वीप्सान्त वान्न द्विवचनम् । प्रतिशब्दस्येति । यत्त्वाः'प्रामस्य वृक्षं वृक्षं प्रतीत्यत्र सापेक्षत्वेन समासाभावे द्वितीयाविधानं सावकाशमिति ।