________________
प्रकरणम् १७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ १३
1
योsतिहिमम् । श्रत्ययो ध्वंसः । निद्रा संप्रति न युज्यत इत्यतिनिद्रम् । हरिकमभावपदमिति भावः । घटः पटो नेत्यत्र तु नाव्ययीभावः, अर्थग्रहणसामर्थ्येनात्यन्ताभावस्यैव विवक्षितत्वात् । हिमस्यात्ययो ऽतिहिममिति । अतीत्यव्ययपर्यायः प्रत्ययशब्दो विग्रहे ज्ञेयः । श्रर्थाभावेत्यनेन पौनरुक्त्यं निरस्यति — प्रत्ययो ध्वंस इति । अर्थाभावशब्देनात्यन्ताभाव एव विवक्षितः । तेन पटस्य प्रागभावो निष्पटमिति न भवतीति भावः । सूत्रे संप्रतीत्यस्य संप्रति न युज्यत इत्यर्थः । 'एतर्हि संप्रतीदानीम्' इत्यमरः । युजिक्रियान्तर्भावेण एकार्थीभावान्नञ्समासः । तदाहनिद्रा संप्रति न युज्यत इत्यतिनिद्रमिति । श्रतीत्यव्ययस्यासंप्रत्यर्थकस्य स्थाने 'संप्रति न युज्यते' इति विग्रहवाक्यं ज्ञेयम् । सूत्रे शब्दप्रादुर्भाव इत्यनेन शब्दस्य भावात्, 'अन्यारात् -' इति सूत्रस्य त्वन्यत्र कृतार्थत्वाच्च, सामीप्ये चाराद्वनमित्यव्ययी - भावो दुर्वार एवेति । एवं हि व्याकुर्वतां 'पदस्येत्यपकर्षाभावे भृशार्थे सावकाशोऽयं यङ् पौनःपुन्ये परेण द्विर्वचनेन बाध्येत' इति 'नित्यवीप्सयोः' इति सूत्रस्थमनोरमाग्रन्थो - Sनुकूल इति दिक् । सुमद्रमिति । उत्तरपदार्थप्राधान्ये तु 'कुगति -' इति तत्पुरुषः । समृद्धा मद्राः सुमद्राः । दुर्यवनमिति । न चार्थाभावेनेह सिद्धिः, येन समस्यते तदीयार्थाभावेऽत्र समासस्वीकारात् । न चेह यवनानामभावः, येनार्थाभावे समासः स्यात्, किं तु तदीयाया ऋद्धेरभाव इति । निर्मक्षिकमिति । संसर्गाभावेऽयं समासो न त्वन्योन्याभावेऽपि । अर्थग्रहणसामर्थ्येन समस्यमानपदजन्य प्रतीतिविशेष्यविरोधिन एवाभावस्य ग्रहणात् । अन्योन्याभावस्य तु प्रतियोगितावच्छेदकेनैव विरोधात्तस्य च प्रकारत्वेऽप्यविशेष्यत्वात् । ये तु वदन्ति - 'घटः पटो नेत्यत्रापि पटत्वात्यन्ताभाव एवार्थः, आनृत्यधिकरणन्यायेन जातेः पदार्थत्वादिति तेषामपि मते अर्थग्रहणसामर्थ्यादेवाक्षिप्तधर्म्यभावे अयं समासो न तु धर्माभाव इति न दोषः । प्रत्यय इति । स्पष्टाथर्मतेत्, अर्थाभावेन गतार्थत्वात् । अर्थाभावेन संसर्गाभावो विवक्षितो न त्वन्योन्याभावः । घटः पटो नेत्यत्रातिप्रसङ्गादिति निष्कर्षात् । संप्रति नेति । संप्रतीत्यव्ययमिदानीमित्यर्थे । 'एतर्हि संप्रतीदानीम्' इत्यमरोक्तेः । तच्चाधिकरणशक्ति प्रधानत्वात्क्रियापदेनैवान्वयार्हम् । निषेधोऽपि क्रियाया एवोचितः, तदेतदाह - युज्यत इति । असं प्रतीति सौत्रप्रयोगे तु युजिक्रियान्तर्भावेण नञ्समास इति बोध्यम् । यत्तु प्रसाद - कृतोक्लम् —'असंप्रति संप्रत्यभाव इत्यर्थः । अनेन उपभोग्यवस्तुनो यो वर्तमानः कालः स निषिध्यते' इति । तन्न, अधिकरणशक्तिप्रधानस्य क्रिययैवान्वयार्हस्य निषेध प्रति प्रतियोगित्वेनान्वयस्यायुक्तत्वात् । न हि भूतले घटो नास्तीत्यनेन भूतलं निषिध्यत इति १ 'निषेधप्रतियोगित्वेन' इति क्वचित् पाठः ।