________________
१२ ]
सिद्धान्तकौमुदी ।
| अव्ययीभाव
द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः संमंद्रम् । यवनानां व्यृद्धिदुर्यवनम् । विगता ऋद्धिब्यृद्धिः । मक्षिकाणामभावो निर्मत्तिकम् । हिमस्यास्यविधानसामर्थ्यादिति । 'समया ग्रामम्, निकषा लङ्काम्, आराद्व नातू' इत्यत्र शेषषष्ठयां सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वाद् उपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठया वा लुकि समासात् प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथम् अम्भावे तद्विकल्पे च 'समयाप्रामम्, निकषालङ्कम्, प्राराद्वनम्, समयाप्रामेण निकषालङ्केन, आराद्वनेन, समयाप्रामे, निकषालङ्के, आराद्वने' इति स्यादेव । ततश्च द्वितीयापञ्चम्योर्विधिर्व्यर्थः स्यात्, षष्ठ्यैव गतार्थत्वात् । न च समासात् पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्कधे, सकृत्प्रवृत्तयोः पुनः प्रवृत्त्ययोगात् । वस्तुतस्तु मध्यार्थकसमयाशब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमीविधानस्य चरितार्थत्वाद् इदमयुक्तम् । न चैवं सति 'समया ग्रामम्' इत्यादौ अव्ययीभावः शङ्कयः, अभक्ष इत्यादाविव विभक्त्यर्थसमीपादिमात्रवृत्त्यव्ययस्यैव ग्रहणात् समयानिकषाssराच्छब्दानां चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाभावात् । ग्रामस्य समीपे इति हि तेषामर्थः । उपशब्दस्तु तन्मात्रवाची । उपकृष्णं भक्ता इत्यत्र कृष्णसामीप्य - वन्त इति बोधात् । मद्राणां समृद्धिरिति । संमित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एतत्सूत्रविहितसमासस्य नित्यतया स्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । संमद्रमिति । सर्वत्र सुब्लुगादि पूर्ववज् ज्ञेयम् । समृद्वा मद्राः संमद्रा इत्यादौ तु नाव्ययीभावः, वचनग्रहणसामर्थ्येनाव्ययार्थप्राधान्य एव तत्प्रवृत्तेरिति भाष्ये स्पष्टम् । यवनानां व्यृद्धिदुर्यवनमिति । दुर्शब्दार्थको व्यृद्विशब्दो विग्रहे ज्ञेयः । विगतेति । श्रभावप्रतियोगिनीत्यर्थः । ऋद्धेरभावो व्यृद्धिरिति यावत् । न चार्थाभावेऽयमिति भ्रमितव्यम् समस्यमानपदार्थाभावस्यैव तत्र विवक्षितत्वात्, इह च यवनाभावस्याप्रतीतेः । यवनीयवृद्ध्यभावस्यैव प्रतीतेः । तद् वनयन्न् अर्थाभाव उदाहरति-मक्षिकाणामभावो निर्मक्षिकमिति । विग्रहे निशब्दसमानार्थतु ‘संख्ययाव्ययासन्ना-’इति बहुव्रीहिर्वक्ष्यति 'उपदशाः' इति यथा। विधानसामर्थ्यादिति । ननु समया ग्राममित्यादौ द्वितीयाविधानसामर्थ्यान्मास्त्वव्ययीभावः, श्राराद्वनादित्यत्र तु भवेदेव, ‘अन्यारात् -' इति इति पञ्चमी विधानस्य दूरार्थकाराच्छब्दयोगे सावकाशत्वादिति चेत्, अत्र केचिदुत्प्रेक्ष्यन्ति - ' दूरान्तिकार्थैः षष्ठयन्यतरस्याम्' इति षष्ठीपञ्चम्योः प्राप्तयोस्तदपवादतया पञ्चम्येव तेन विधीयते । तथा चान्तिकार्थकाराच्छब्दयोगे षष्ठयपवादतया पञ्चमीविधानं निरवकाशमेवेति तत्सामर्थ्यादव्ययीभावो नेत्युक्तिः सम्यगेवेति । तदपरॆ न क्षमन्ते । 'अन्तिकार्थाराच्छब्दयोगे विशिष्य पञ्चमीविधाना१ अयं पाठो बालमनोरमानुरोधी । इतरत्र तु 'सुमद्रम्' इति पाठः ।
,