________________
प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ११
( २-४ -१८) अयं नपुंसकं स्यात् । 'हस्वो नपुंसके प्रातिपदिकस्य' ( सू ३१८ ) । गोपायतीति गाः पातीति वा गोपाः, तस्मिनित्यधिगोपम् । समीपे - कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम् भाराद्वनादित्यत्र तु नाव्ययीभावः, 'अभितः परितः - ' ( वा १४४२ ) 'अन्यारात् -' ( सू २१५ ) इति
भावश्च । श्रयं नपुंसकं स्यादिति । 'स नपुंसकम्' इत्यतः तदनुत्रृत्तेरिति भावः। नपुंसकत्वस्य फलमाह–ह्रस्वो नपुंसक इति । गोपायतीति । रक्षतीत्यर्थः । 'गुपू रक्षणे' विच् । 'आयादय आर्धधातुके वा' इत्यायप्रत्ययः । 'लोपो व्योः -' इति यलोपः । ‘वेरपृक्तस्य' इति वकारलोपः । गोपाशब्द आकारान्तः । गाः पातीति । पातेर्विचि उपपदसमासे गोपाशब्द इति भावः । अधिगोपमिति । विभक्त्यर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे ह्रस्वत्वे सति 'नाव्ययीभावात् -' इत्यमि पूर्वरूपमिति भावः । ' गोस्त्रियो:-' इति तु नात्र प्रसज्यते, स्त्रीप्रत्ययान्तत्वाभावात् । समीप इति । समीपार्थकाव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति । लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीप - मिति प्रयुक्तम् । कृष्णस्य उप इति तु न विग्रहः, नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । ननु समया ग्रामम्, निकषा लङ्काम्, आराद्वनात् इत्यत्रापि समयाद्यव्ययानां समीपार्थकत्वाद् अव्ययीभावः स्यात्, ततश्च 'प्रामं समया, प्रामं निकषा वनादारात्' इति प्रयोगो न स्यात् । अव्ययीभावसमासे अव्ययस्य पूर्वनिपातनियमादित्यत आह-समयेति । स्यादेवेति । तन्न, परिगणनस्याकरे प्रत्याख्यातत्वात् 'कर्मणि द्वितीया' इति सूत्रे स्वयमपि तथैवोक्तत्वात् । ' क्रमादमुं नारद इत्यबोधि सः' इति प्रयोगविरोधाच्च । श्रत्र व्याचक्षते --' वचनग्रहणं विभक्त्यादिभिः प्रत्येकं संबध्यते' 'साकल्यान्तेषु' इत्येव वक्तव्ये वचनग्रहणात् । एवं च तत्सामर्थ्याद्विभक्त्यर्थमात्रवृत्तेरव्ययस्येह ग्रहणम् । तेन वृक्ष - स्योपरि, वृक्षस्य पुर इत्यत्र समासो न भवति । उपर्यादयो हि दिग्देशकालेष्वपि वर्तन्ते, न तु विभक्त्यर्थमात्रे । अत एव 'क्रमादमुं नारद इत्यबोधि सः' इत्यादौ नातिप्रसङ्गः, इति शब्दस्य सर्वनामवत्प्रकृतपरामर्शकत्वेन कर्मत्वमात्रानभिधायकत्वात् । एवं च विभक्तिशब्दः सप्तम्यां पर्यवस्यति । अत एव परिशिष्टे - 'अधिकरणे' इत्येव सूत्रितम् । पाणिनिस्तु मात्रालाघवमभिप्रेस्य विभक्तिशब्दं प्रायुङ्क्त' इति । अन्ये तु - ' लाघवात् 'डिसमीपसमृद्धि-' इति वक्तव्ये विभक्तिग्रहणाद्विभक्तिशब्दो न सप्तम्यां पर्यवस्यति । ततश्च कर्मत्वमात्रद्योतकतायाम् ' इति नारदम्' इति समासो भवत्येव' इत्याहुः । नपुंसकं स्यादिति । एतच्च 'स नपुंसकम्' इत्यतो लभ्यते । समीप इति । श्रव्ययीभाव इत्यन्वर्थसंज्ञाश्रयणात्सप्तमी रूपाव्ययार्थ प्राधान्य एवायं समासः । समीपवर्तिप्राधान्ये
1