________________
१०]
सिद्धान्तकौमुदी। अव्ययीभावम्यर्थस्यैवात्र द्योतकोऽधिः । हरि हि अधि इस्यलौकिकं विरहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी । ६५६ अ ययीभावश्च । गम्यते तावदेवाधिहरीति समासेनाप्युच्यत इत्यर्थः । अधिशब्दस्य इरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्ययमिति प्रथमानिर्दिष्टत्वाद् अधेः पूर्वनिपाते समासादुत्पन्नस्य सुपः 'अव्ययादाप्सुपः' इति लुगिति भावः। ननु ल'किकविग्रहे समस्यमानः अधिशब्दः कुतो नोपात्त इत्यत आह-सप्तम्यर्थस्यैवात्र द्योतकोऽधिरिति । तथा चाधिद्योत्यार्थस्य अधिकरणत्वस्य सप्तम्यैव उक्तत्व द् अधिशब्दो न पृथगुपात्तः, नित्यसमासताया वक्ष्यमाणत्वेन स्वपदविग्रहानौचित्यादिति भावः । ननु हरौ इति परिनिष्ठतसंधिकार्यस्य समासे सति औ इत्यस्य सुपो लु १ समासे रेफादिकारः कुतः श्रूयेतेत्यत आह-हरि ङि इति । संधिकार्यात् प्राग नौकिकविग्रहवाक्य एव समासप्रवृत्तेः 'प्रत्ययोत्तरपदयोश्च' इति भाष्यसंमतत्वादिति भावः । यथा चैतत् तथा भूतपूर्व इत्यत्रानुपदमेवोक्तम् । नन्वधिना निपातेनाधिकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह-अत्र निपातेनेति । वचनेति । सुपेत्यनुवर्त्य सुबन्तेनात्र समासविधिसार्थ्यात् सप्तमी स्यादेवेति भावः । वस्तुतस्तु उ नभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासरित्येव परिगणनं दृष्टम् । अतो निपातेनाधिना अभिहितेऽप्यधिकरणत्व सप्तमी निर्बाधा । 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' इत्यत्र तु एष्टव्य इत्यध्याहार्यम् । कृताऽभिधानाद् विषवृक्षाद् द्वितीया न भवति न च कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम् , 'कटं करोति भीष्ममुदारं दर्शनीयम्' इत्यत्र परिगणनफलस्यान्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां त वत् । अव्ययी. पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । विभक्तौ तावदिति । तावच् छन्दः क्रमार्थः । लौकिकं विग्रहवाक्यं प्रदर्शयति--हराविति । प्राचा तु हरौ अधिकृत्येति विगृहीतम् । तदसत् , अधिहरीत्यत्र अधिकृत्येत्यर्थस्याप्रतीतेः । हरि ङाति । अलौकिके डिशब्दस्यैव प्रवेश उचितः 'अन्तरझानपि-' इति न्यायात् । अन्य था ढेरौत्त्वे कृते अधिहरीति समासे हरिशब्देकारो दुर्लभः स्यादिति भावः । इह द्रावधीति स्थिते इति प्राचोक्तमुपेक्षितम् , नित्यसमासेषु अस्वपदविग्रहस्यैवोचितत्वात् अभिहिते. पीति । गोतितेऽपीत्यर्थः । वचनसामर्थ्यादिति । सुपेत्यनुवर्त्य सुबन्तेन समासविधानसामर्थ्यात्सप्तमी स्यादेवेति भावः । नन्वलिहितेऽधिकरणे 'प्रातिपदिकार्थमात्र-' इति प्रथमैव स्यान्न तु सप्तमीति चेत् , अत्राहुः--अधीत्यस्य सुबन्तेन समासस्यावश्यकत्वेऽधिशब्दद्योत्याधिकरणार्थवाचकविभक्तरेवेह स्वीकर्तुमुचितत्वादितिः । यत्तु प्रसादकृता व्याख्यातम्-तिकृत्तद्धितसमासैरिति परिगणनादधिनाभिति तेऽपि सप्तमी