________________
८०
सिद्धान्तकौमुदी। [ तत्पुरुषसमासपरतो भाषितपुंस्कात्पर ऊभावो यस्मिस्तथाभूतं पूर्व पुंवत् । पूरणीप्रियादिवप्राप्तः पुंवझावो विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया। तथा कोपधादेः प्रतिषिद्धः पुंवद्रावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री, वत्सभार्या, पञ्चमभार्या, सोनभार्या, सुकेशभार्या, ब्राह्मणभार्या । एवं पाचकजातीयदेशीययोस्सु 'तसिलादिष्वाकृत्वसुचः' इत्यनेन सिद्धमित्यत आह-पूरणीप्रियादिष्वप्राप्त इति । अपूरणीप्रियादिष्विति पर्युदासादिति भावः। महानवमीति । महती चासौ नवमी चेति विग्रहः । 'सन्महत्-' इत्यादिना समासः । नवानां पूरणी नवमी । 'तस्य पूरणे डट् 'नान्तादसंख्यादेर्मट् । टित्त्वाद् डीप् । अत्र नवमी शब्दस्य पूरणप्रत्ययान्तत्वात्तस्मिन् परे 'स्त्रियाः पुंवत्-' इति पुंवत्त्वमप्राप्तमनेन विधी. यते । कृते पुंवत्त्वे 'श्रान्महतः- इत्यात्त्वमिति भावः । कृष्णचतुर्दशीति । चतुर्दशानां पूरणी चतुर्दशी डट् । 'नस्तद्धिते' इति टिलोपः । टित्त्वान्डीप् । कृष्णा चासौ चतुर्दशी चेति विग्रहः । महाप्रियेति । महती चासौ प्रिया चेति कर्मधारयः । अत्रापि प्रियादिपर्युदासादप्राप्तमनेन विधीयत इति भावः। 'पुंवत्कर्मधारय-' इत्यस्य प्रयोजनान्तरमाह--तथा कोपधादेरिति । 'न कोपधायाः' 'संज्ञापूरण्योश्च' 'वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' 'स्वाजाच्चतः' 'जातेश्च' इति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति । कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति । पाचिका चासो स्त्री चेति कर्मधारयः । अत्र 'न कोपधायाः' इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या, पञ्चमभायेति । दत्ता चासौ भार्या चति, पञ्चमी चासौ भार्या चेति च कर्मधारयः। अत्र 'संज्ञापूरण्योश्च' इति प्रतिषेधः प्राप्तः । सौनभायेति । स्रौनी चासौ भार्या चेति कर्मधारयः । अत्र 'वृद्धिनिमित्तस्य च-' इति प्रतिषेधः प्राप्तः । सुकेशभायेति । सुकशी चासौ भार्या चेति कर्मधारयः। अत्र 'स्वाशाच्च' इति निषेधः प्राप्तः । ब्राह्मणभायेति । ब्राह्मणी चासौ भार्या चेति जन्तः । समानाधिकरणपदक इत्यर्थः । भाषितपुंस्कादित्यादि । एतच्च 'स्त्रियाः पुंवत्-' इति सूत्रे स्फुटीकरिष्यते। ननु तेनैव कर्मधारयेपि सिद्धम् , जातीयदेशीययोस्तु 'तसिलादिषु-' इति सिद्धम् , तत्किमनेन सूत्रेणेत्यत आह-पूरणीप्रियादिष्विति । तथेति च । महानवमीति । नवानां पूरणी । 'तस्य पूरणे डट् 'नान्तादसंख्यादेर्मट्' टित्त्वान्ङीप् । महती चासौ नवमी चेति विग्रहः । वद्भावे कृते वक्ष्यमाणेन महत आकारः । कोपधादेरिति । 'न कोपधायाः' 'संज्ञापूरण्योश्च' 'वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' 'स्वाजाच्चेतः' 'जातेश्च' इति पञ्चसूच्या प्रतिषिद्ध इत्यर्थः । क्रमेणोदाहरति-पाचकस्त्रीति । जातीयदेशीययोरपि प्रतिप्रसवमुदाहरति