SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ८१ जातीया पाचकदेशीया इत्यादि । इभपोटा | पोटा स्त्रीपुंसलक्षणा । इभयुवतिः । श्रग्निस्तोकः । उदविष्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूता, गोधेनुः । वशा वन्ध्या गोवशा । वेहगर्भघातिनी गोवेहत् । बष्कयण्यतरुणवत्सा, गोबष्कय णी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः । कर्मधारयः । अत्र 'जाते श्च' इति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रतिप्रसवमुदाहरति-— एवं पाचकचातीया पाचकदेशीयेति । 'प्रकारवचने-' इति जातीयर्, 'ईषदसमाप्तौ -' इ ते देशीयर् । उभयत्रापि ' तसिलादिषु -' इति पुंवत्त्वस्य 'न कोपधायाः' इति निषेधः प्राप्तः । इत्यादीति । दत्तजातीया, दत्तदेशीया, पञ्चमजातीया, पञ्चमदेशीया, स्रौघ्न्नजातीया, स्रौघ्नदेशीया, सुकेशजातीया, सुकेशदेशीया, ब्राह्मणजातीया, ब्राह्मण शीया । तदेवं पुंवत्कमधारय ' इति सूत्रं निरूप्य 'पोटायुवति -' इति सूत्रस्य क्रम् गोदाहरणान्याह - इभपोटेति । पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणा इति । कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिरेति । युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्त्वम् । अग्निस्तोक इति । स्तोकः अल्पः, स चासौ अभिश्चेति विग्रहः । उदश्वित्कतिपयमिति । 'तक्रं हादश्वित्' इत्यमरः । कतिपयं च तदुदश्विच्चेति कर्मधारयः । सृष्टिः सकृत्प्रसूति । कोशवाक्यमिदम् । गोगृष्टिरिति । गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतेति । कोशवाक्यमिदम् । गोधेनुरिति । धेनुश्चासौ गौश्चेति विग्रहः । वशा वन्ध्येति । कोशवाक्यमिदम् । गोवशेति । वशा चासौ गौश्चेति । विग्रहः । वेह गर्भघातिनीति । कोशवाक्यमिदम् । गोवेहदिति । बेहच्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति । 'चिरसूता बष्कयणी' इत्यमरः । तरुणवत्सेत्यपपाठः । गोबष्कयणीति । बष्कयणी चासौ गौश्चेति विग्रहः । कठप्रवक्तेति । प्रवक्त अध्यापकः, स चासौ कठश्चेति विग्रहः । कठाध्यापक इति । श्रध्यापकश्चासौ व ठश्चेति विग्रहः । कठधूर्त इति । धूर्तश्चासौ कठश्चेति एवमिति । पाचिकाप्रकारवती पाचकजातीया । ' प्रकारचचने जातीयर्' । पाचकदेशीयेति । 'ईषदसमाप्तौ -' इति देशीयर । उभयत्र ' तसिलादिषु -' इति पुंवद्भावस्य 'न कोपधायाः' इति निषेधः प्राप्तः, पटुजातीया पटुदेशीयेत्यादौ तस्य चरितार्थ - त्वात् । इत्यादीति । श्रादिपदाद् दत्तजातीया, पञ्चमजातीया, स्रौघ्नजातीया, सुकेशजातीया, ब्राह्मणजातीया । एवं दत्तदेशीयेत्यायुदाहार्यम् । स्त्रीपुंसलक्षणेति । स्तनश्मश्वादियुक्ता स्त्रीत्यर्थः । उदश्विदिति । 'तक्रं यदश्विन्मथितं पादाम्ब्वर्धाम्बु
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy