________________
८२]
सिद्धान्तकौमुदी। [तत्पुरुषसमास७४७ प्रशंसावचनैश्च । (२-१-६६) एतैः सह जातिः प्राग्वत् । गोमतलिका । मोमचर्चिका । गोप्रकाण्डम् । गवोद्धः । गोतबजः। प्रशस्ता गौरित्यर्थः। मतलिकादयो नियतलिकाः, न तु विशेष्यनिन्नाः । जाति: किम्-कुमारी मतलिका । ७४८ युवा खलतिपलितवलिनजरतीभिः । (२-१-६७) विग्रहः । 'धूर्तोऽक्षदेवी' इत्यमरः। विट इत्यन्ये । न च 'कुत्सितानि कुत्सनैः' इत्यनेन सिद्धिः शङ्कया, प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तः। न हि कठत्वं कुत्सितम् । प्रशंसावचनैश्च । एतैरिति । रूढपा प्रशंसावाचकैरित्यर्थः । जातिरिति । 'पोटायुवति-' इत्यतस्तदनुवृत्तेरिति भावः। प्राग्वदिति । समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः । जातेः पूर्वनिपातनियमार्थ सूत्रम् । गोमतल्लिकेति । मतल्लिका चासौ गौश्चेति विग्रहः । गोमचर्चिकेति। मचर्चिका चासौ गौश्चेति विग्रहः । गोप्रकाएडमिति । प्रकाण्डं चासौ गौश्चेति विग्रहः। गवोद्ध इति । उद्धश्चासौ गौश्चेति विग्रहः । 'अवङ् स्फोटायनस्य' 'आद् गुणः' । गोतल्लज इति । तल्लजश्वासौ गौश्चेति विग्रहः । सर्वत्र परवल्लिङ्गता । मतल्लिकादिशब्दानामप्रसिद्धत्वाद्याचष्टेप्रशस्ता गौरित्यर्थ इति । गोशब्दस्य स्त्रीलिङ्गत्वाभिप्रायात्प्रशस्तेति स्त्रीलिङ्गनिर्देशः । गोशब्दस्य पुँल्लिङ्गत्वे तु प्रशस्त इति पाठयम् । ननु गोशब्दस्य पुँल्लिङ्गत्वे मतल्लिकामचर्चिकाप्रकाण्डशब्दानामपि विशेष्यनिघ्नत्वात् पुँल्लिङ्गतापत्तिः । गोशब्दस्य स्त्रीलिङ्गत्वे तु प्रकाण्डोद्धतल्लजानामपि स्त्रीलिङ्गतापत्तिश्चेत्यत आह-मतल्लिकादय इति । 'मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । कुमारी मतल्लिकेति । अवस्थाविशेषात्मकवयोविशेषवाचित्वान्न जातिवाची कुमारीशब्द इति न समासः। समासे तु 'पुंवत्कर्मधारय-' इति पुंवत्त्वं स्यादिति भावः । युवा खलति । युवन्शब्दः खलत्यादिभिः समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः । विशेषणसमासेन सिद्ध किमर्थमिदमित्यत अाह--पूर्वेति । युवन्शब्दस्य खलत्यादिशब्दानां च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्यानियमे प्राप्ते तन्नियमार्थमिदं सूत्रमित्यर्थः । खलतिः केशहीनशिराः । 'पलितं जरसा शौक्लायम् ' 'वलिनो वलिभः समौ' इत्यमरः । युवा खलतिः युवखलतिरिति । निर्जलम्' इत्यमरः । कठधूर्त इति । नात्र कठत्वं कुत्स्यते, अतः 'कुत्सितानि कुत्सनैः' इति गतार्थता न शङ्कया, प्रवृत्तिनिमित्तकुत्सायामेव तस्य प्रवृत्तेः । 'जनयति कुमुदभ्रान्ति धूर्तबको बालमत्स्यानाम्' इत्यत्र धूर्तबक इत्यसाधुरेव । प्रशंसावचनैश्च । वचनग्रहणं रूढिशब्दपरिग्रहार्थम् । तेन ये यौगिकाः प्रशस्तशोभनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वादयः, ये तु गौण्या वृत्त्या प्रशंसा गमयन्ति 'सिंहो माणवकः'