________________
प्रकरणम् १८. बालमनोरमा-तत्त्वबोधिनीसहिता। [८३ पूर्वनिपातनियमार्थ सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते । युवा खलतियुवख नतिः । युवतिः खलती युवखलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तद्रूपारोपासामानाधिकरण्यम् । ७४६ कृत्यतुल्याख्या अजात्या । (२-१-६८) भोज्योष्णम् । तुल्यश्वेतः । सदृशश्वेतः । प्रजात्या किम्-भोज्य श्रोदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न । ७५० वर्णो अन्तर्वर्तिनीं विभक्ति माश्रित्य पदत्वान्नलोपः । ननु युवेति पुंल्लिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आह--लिङ्गविशिष्टेति । युवतिः खलतिः युवखलतिरिति । 'पुंवत्कर्म वारय-' इति पुंवत्त्वम् । युवजरतीति । जरती वृद्धा । युवतिश्वासौ जरती चेति दि ग्रहः । 'पुंवत्कर्मधारय-' इति पुंवत्त्वम् । ननु युवतिः कथं जरती स्यादित्यत आह-शुवत्यामेवेति । कृत्यतुल्याख्या । कृत्यप्रत्ययान्ताः तुल्यवाचकाश्च जातिभिन्न वाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः । भोज्योष्णमिति । भोज्यं च तदुष्णं चेति विग्रहः । 'ऋहलोपर्यत्' इति ण्यत् ! अर्हे कृत्यप्रत्ययः । ॐ ज्योष्णशब्दयोः क्रियागुणशब्दत्वात् विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते 'नेयमार्थमिदम् । तुल्यश्वेत इति। तुल्यश्चासौ श्वेतश्चेति विग्रहः । उभयोर्गुणाचनतया विशेषणत्वानियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः ।
आख्याग्रहणस्य प्रयोजनमाह--सदृशश्वेत इति । सदृशशब्दस्य तुल्यपर्यायत्वादिति भावः । भोज्य अोदन इति । अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः । नन्वेतत्समासाभावेऽपि विशेषणसमासो दुरि इत्यत आहप्रतिषेधेति । भोज्य ाब्दपूर्वनिपातस्योभयत्राप्यविशिष्टतया 'अजात्या' इति पर्युदाइत्यादयस्ते सर्वे व्युदयन्ते । गवोद्ध इति । 'अवङ् स्फोटायनस्य' इत्यवडि 'आद् गुणः' । 'मताजका मचर्चिका प्रकाण्डमुद्धतल्लजी । प्रशस्तवाचकान्यमूनि' इत्यमरः । 'प्रशंसावचन मोटायुवति-' इत्येकयोगसंभव पृथग्योगकरणं चिन्त्य फलम् । युवखलतीति । 'कदिकारादक्तिनः' इति ङीष् । 'पुंवत्कर्मधारय-' इति युवतिशब्दस्य पुंवद्भावः । जातीति । 'जीर्यतेरतृन्', 'उगितश्च' इति डीप । एवं युवपलितः, युववलिन इत्युद हार्यम् । वलिनशब्दः पामादिः । कृत्यतुल्याख्या । तुल्यमहान् सदृशमहानित्यादौ तु परत्वादनेन 'सन्महत्-' इति बाध्यते । 'तस्य सत्कृत्यशालिनः' इति भट्टिप्रयोग तु 'सतां कृत्यं सत्कृत्यम्' इति षष्ठीसमासो बोध्यः । एवं 'परमपूज्यः' इत्यादिष्वपि । वर्णो । समानाधिकरणेन वर्णवाचिना वर्णवाचि समस्यत इत्यर्थः । 'विशेषणं विशे येण-' इत्यनेनैव सिद्ध पृथग्विधानं 'वर्णो वर्णेष्वनेते' इति
१ क्वचित्तु '-भ यथा' इति पाठः ।