________________
८४]
सिद्धान्तकौमुदी। [ तत्पुरुषसमासवर्णेन । (२-१-६६) समानाधिकरणेन सह प्राग्वत् । कृष्णसारकः । ७५१ कडाराः कर्मधारये (२-२-३८) कडारादयः शब्दाः कर्मधारये वा पूर्व प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः । ७५२ कुमारः श्रमणादिभिः। (२-१-७०) कुमारी श्रमणा कुमारश्रमणा। इह गणे श्रमणा प्रव्रजिता सवैयर्थ्यादिति भावः । वर्णो। शेषपूरणेन सूत्रं व्याचष्टे--समानाधिकरणेनेति । वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते, स तत्पुरुष इत्यर्थः । कृष्णसारङ्ग इति । सारङ्गश्चित्रवर्णवान् । कृष्णशब्दः कृष्ण वयवके लाक्षणिक इति सामानाधिकरण्यम् । कृष्णश्चासौ सारङ्गश्चेति विग्रहः । विशेषणसमासेन सिद्धे इदं प्रपञ्चार्थमेव। यत्तु 'वर्णो वर्णेष्वनेते' इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम् । तेन सारङ्गस्यावयवः कृष्णः सारङ्गकृष्ण इत्यत्र 'वर्णो वर्णेषु-' इति स्वरो नेति, तचिन्त्यम्, कर्मधारयस्वरप्रकरणे 'वर्णो वर्णेष्वनेते' इति सूत्रस्य पाठेनैव सिद्धेरिति दिक् । कडाराः कर्मधारये । 'उपसर्जनं पूर्वम्' इत्यतः पूर्वमित्यनुवर्तते । कडारा इति बहुवचननिर्देशात्तदादिग्रहणम् , तदाह-कडारादय इति । 'उपसर्जनं पूर्वम्' इति नित्ये प्राप्ते विकल्पोऽयम् । कडारजैमिनिरिति । कडारश्चासौ जैमिनिश्चेति विग्रहः । कुमारः श्रमणादिभिः । कुमारशब्दः श्रमणादिभिः समानाधिकरणैः समस्यते, स तत्पुरुष इत्यर्थः । कुमारी श्रमणा कुमारश्रमणेति । 'पुंवत्कर्मधारय-' इति पुंवत्त्वम् । श्रमणा परित्यक्तसर्वराजा । ननु सूत्रे कुमारशब्दस्य पुँल्लिङ्गस्यैव पाठात् कथमिह स्त्रीलिङ्गस्योदाहरणमित्यत श्राहइहेति । ननु गणे स्त्रीलिङ्गानामेव पाठे सूत्रस्य कथं तेषु प्रवृत्तिः । न च लिङ्गविशिष्टपूर्वपदप्रकृतिस्वरो विधीयमानः प्रतिपदोनत्वादेतत्समासपूर्वपदस्यैव भवतु नान्यस्येत्ये तदर्थम् । कृष्णसारङ्ग इति । सारङ्गश्चित्रपर्यायः, स च गुणोपसर्जनद्रव्यपरः । कृष्णशब्दोऽपि कृष्णावयवके भावः । एवं च गौणे सामानाधिकरण्ये 'विशेषणं विशेध्येण-' इत्यप्रवृत्तौ समासार्थमपीदमारब्धव्यमित्याहुः । ननु 'तृतीया तत्कृता-' इत्यनेनैवायं समासः सिध्यति, सारङ्गत्वस्य कृष्णादिकृतत्वात् । नापि स्वरे भेदः, 'तत्पुरुषे तुल्यार्थतृतीया' इत्यनेनैव पूर्वपदप्रकृतिस्वरसिद्धरिति चेत् । अत्राहु:-कृष्णशुको हरितशुक्ल इत्याद्यर्थ समासोऽनेनावश्यं विधेयः । नहीह तत्कृतत्वमस्ति । यद्यपीह 'विशेषणं विशेष्येण-' इत्यनेन समासः सिध्यति, तथापीष्टः स्वरो न सिध्यति । न च प्रतिपदोकसमासोऽकिंचित्करः, व्यावालाभादिति वाच्यम् , कृष्णशुक्रौ इत्यादेयावर्त्यस्य संभवादिति । कडारादय इति । बहुवचननिर्देशादिति भावः । प्रादिशब्देन गडुलशाण्डिल्यः, शाण्डिल्यगडुल इत्यादि । एतच भाष्ये स्पष्टम् । एत.