________________
प्रकरणम् १८ ]
बालमनोरमा-तत्वबोधिनीसहिता । [ व
गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम् । ७५३ चतुष्पादो गर्भिण्या । ( २-१-७१ ) चतुष्पाजातिवाचिनो गर्भिणीशब्देन सह प्राग्वत् । गोगर्भिणी । 'चतुष्पाज्जातिरिति वक्तव्यम्' ( वा १३११ ) । नेह | स्वस्तिमती गर्भिणी । ७५४ मयूरव्यंसकाद्यश्च । ( २ - १ - ७२ ) एते निपात्यन्ते । मयूरो व्यंसकः मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक्योच्चावचम् । निश्चितं च प्रचितं च निश्श्रप्रचम् । नास्ति किञ्चन यस्य
परिभाषयेति वाच्यम्, तत्सद्भावे प्रमाणाभावादित्यत आह--लिङ्गेति । एतदेवेति । एतदपीत्यर्थः, 'युवा खलति -' इतिसूत्रे जरतीग्रहणस्यापि तज्ज्ञापकत्वात् । न हि युवन्शब्दस्य जरतीसामानाधिकरण्यमस्ति । चतुष्पादो गर्भिण्या | 'जातिग्रहणं कर्तव्यम्' इति वार्तिकमभिप्रेत्य आह - चतुष्पादजातीति । गोगर्भिणीति । गर्भिणी चासौ गौश्चेति विग्रहः। विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् ? कालाक्षी गर्भिणी । मयूरव्यंसकादयश्च । एते निपात्यन्त इति । कृतसमासकार्या निदिश्यन्त इत्यर्थः । मयूरव्यंसक इति । व्यंसकश्चासौ मयूरश्चेति विग्रहः । व्यंसको धूर्त इति । अत्र कोषो मृग्यः । गुणवचनत्वाद् व्यंसकशब्दस्य पूर्वनिपाते प्राप्ते इदं वचनम् । उच्चावचमिति । उदक्शब्दस्य उच्चेयादेशः । अवाक्शब्स्य श्रवचादेशश्च । ‘उच्चावच नैकभेदम्' इत्यमरः । निश्चप्रचमिति । निश्चितशब्दस्य निश्चादेशः । प्रचितशब्दस्य प्रचादेशः । नास्ति किञ्चनेति । चनेत्यव्ययमप्यर्थे । नास्ति किमपि यस्येत्यर्थे बहुव्रीह्यपवादस्त्रिपदस्तत्पुरुषः । मञो नकारस्य लोपश्च निपात्यते । 'न लोपो नञः' इति तु नात्र प्रवर्तते, किंशब्दस्य उत्तरपदत्वाभावात् समासचर मखण्ड एव
देवेति । एवकारः स्फुटसिद्धत्वद्योतनार्थो न त्ववधारणार्थः । 'युवा खलति-' इति सूत्रे जरतीग्रहणस्यापि ज्ञापकत्वसंभवात् । न हि युवन्शब्दस्य पुंस्त्वे जरतीसामानाधिकरण्यं संगच्छते । चतुष्पादो । मण्डूकप्लुत्या श्रत्र 'जातिः' इत्यनुवर्तत इत्याह-- जातिवाचीति । जातिः किम्, कालाक्षी गर्भिणी । चतुष्पात्किम्, ब्राह्मणी गर्भिणी । प्रत्युदाहरणे 'विशेषणम् -' इति समासः स्यादेव । गर्भिणीकालाक्षीत्यादिपूर्वनिपाते विशेषः । मयूर । चकारोऽत्रावधारणार्थः । तेन 'परममयूरव्यंसकः' इत्यादि समासान्तरं न भवति । धूर्त इति । एवं च गुणवचनत्वात्पूर्वनिपाते प्राप्ते इदं वचनमारब्धमिति भावः । अन्ये तु मयूर इव व्यंसको मयूरव्यंसक इत्यादौ 'उपमानानि सामान्यवचनैः' इति समासस्यापवादोऽयम् । तेन 'समासस्य' इत्यन्तोदात्तत्वमिह सिध्यति । 'तत्पुरुषे तुल्यार्थ -' इत्युपमानपूर्वपदप्रकृतिस्वरस्योप