________________
सिद्धान्तकौमुदी। [तत्पुरुषसमाससोऽकिचनः । नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो राजा राजान्तरम् । चिदेव चिन्मात्रम् । 'पाख्यातमाख्यातेन क्रियासातस्ये' (ग २०)। अनीत पिबतेत्येवं सततं यत्राभिधीयते सा प्रश्नोतपिबता । पचतभृजता । खादतमोदता। 'एहीडादयोऽन्यपदार्थे' (ग १८) एहीड इति यस्मिन्कर्मणि तदेहीडम् । एहियवम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सोद्धरोत्सृजा । उद्धमविधमा। असातत्यार्थमिह पाठः । 'जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति'। (ग २६)। जहीत्येतस्कर्मणा बहुलं समस्यते भाभीक्ष्ण्ये गम्ये समासेन चेस्कर्ताभिधीयत इत्यर्थः । जहिजोडः। जहिस्तम्बः। ७५५ ईषदकृता। (२-२-७) उत्तरपदशब्दस्य रूढत्वात् । नास्ति कुत इति । कुतोऽपि भयमस्य नास्तीति विग्रहस्यार्थः । अकुतो भय इति । बहुव्रीह्यपवादस्तत्पुरुषः। अन्यो राजा राजान्तरमिति । अत्र अन्तरशब्दः अन्यपर्यायः । तस्य स्थाने अन्यशब्दो विग्रहवाक्ये ज्ञेयः, नित्यसमासत्वेन अस्वपदविग्रहौचित्यात् । नित्यसमासत्वं च राजान्तरमित्यस्य व्याख्यानादेव ज्ञेयम् । अत्र अन्तरशब्दस्य परनिपातः । चिदेव चिन्मात्रमिति । 'मानं कात्स्येऽवधारणे' इत्यमरः । नित्यसमासत्वसूचनाय अस्वपदविग्रहः । निपातनादनुनासिकनित्यतेत्याहुः । आख्यातमिति । गणसूत्रम् । क्रियासातत्ये गम्ये तिङन्तं तिङन्तन समस्यते, स तत्पुरुष इत्यर्थः। अश्नीतपिबतेति । इहासुबन्तत्वेऽपि समासः । क्रियारूपस्यान्यपदार्थस्य प्राधान्यात् स्त्रीत्वाट्टाप् । एवं पच नभृजतेत्यादावपि । एहीडादय इति । इदमपि गणसूत्रम् । अन्यपदार्थे एहीडादयो निपात्यन्त इत्यर्थः । एहि ईडे इति विग्रहः । इडे इति लडुत्तमपुरुषैकवचनम् । डकारांदेकारस्य अकारादे. शः । एहियवमिति । यौमीत्यस्य यवादेशः । उत्सृजेत्यस्य विवरणम्-देहीति । इह पाठ इति । एहीडादिश्वित्यर्थः । 'जहि कर्मणा बहुलम्-' इत्यपि गणसूत्रम् । कर्ता अभिधीयत इति । उक्तेः कर्तेत्यर्थः । जहिजोड इति । जोड इति कस्यचित् संज्ञा । जहि जोडं जहि जोडमित्याभीक्ष्ण्येन य ह स जहिजोडः । जहिस्तम्ब इति। जहि स्तम्बम् , जहि स्तम्बमिति य आहेति विग्रहः इति समानाधिकरणाधिकारः। ईषदकृता । ईषच्छब्दः अकृदन्तप्रकृतिकसुबन्तेन समस्यते, स तत्पुरुष मानसंशब्दनेन विहिते प्रतिपदोक्तसमासे चरितार्थत्वादित्याहुः । राजान्तरमिति । अन्तरशब्दोऽत्र भिन्नवाची। चिन्मात्रमिति । 'मात्रं कास्न्येऽवधारणे' इत्यमरः अन्तरमात्रशब्दाभ्यां सह नित्यसमास इत्युभयत्र अस्वपदविग्रहो दर्शितः । नित्यसमा. सत्वं तु अवधारणार्थकचकारेण लब्धमित्याहुः । प्रश्नीतपिबतेति । इह कियारूपस्थान्यपदार्थस्य प्राधान्यात् स्त्रीत्वाट्टाप् । एवमग्रेऽपि-उद्धर कोष्ठादित्यादि । उद्धर