SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१६१ (६-३-८३) सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय,सहामात्याय। 'अगोवत्सहलेष्विति वाच्यम्' ( वा ३६६०)। सगवे । सवत्साय । सहलाय । ८५१ बहुव्रीहौ संख्येये डजबहुगणात् । (५-४-७३) संख्येये यो बहुव्रीहिस्तस्माडुच् स्यात् । उपदशाः । अबहुगणात् किम्-उपबहवः, उपगणाः । अत्र स्वरे विशेषः ! 'संख्यायास्तत्पुरुषस्य वाच्यः' । (वा ३३४८) निर्गतानि भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । अत्र तुल्ययोगाभावेऽपि सहस्य सः । प्रकृत्याशिपि । 'सहस्य सः संज्ञायाम्' इत्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदह-सहशब्द इति । प्रकृत्येति । स्वभावेन स्थितः स्यादित्यर्थः । सभावो नेति यावत् । स्वस्तीति । भूयादिति शेषः । सहपुत्रायेति । तेन सहेति समासे कृते, आशीर्योगान्न सभावः। सहामात्यायेति । अगोवत्सेति । गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः । सगव इति । राज्ञे स्वस्तीति शेषः । अथ बहुव्रीहावसाधारणसमासान्तानाह-बहुव्रीहौ । संख्येये यो बहुव्रीहिरिति । 'संख्ययाव्यय-' इति विहित इति शेषः । तस्मादिति। बहुव्रीहाविति पञ्चम्यर्थे सप्तमीति भावः । डच्स्याद् इति । समासान्तस्तद्धितश्चेति ज्ञेयम् । उपदशा इति । दशानां समीपे ये सन्तीति विग्रहः । 'संख्ययाव्यय-' इति बहुव्रीहिः । सुब्लुक् । उपदशन्शब्दाडचि 'नस्तद्धिते' इति टिलोपः। उपबहवः । उपगणा इति । बहूनां समीपे ये सन्तीति, गणस्य समीपे ये सन्तीति च विग्रहः । 'बहुगणवतुडति संख्या' इति संख्यात्वात् 'संख्ययाव्यय-' इति समासः । अबहुगणाद् इति निषेधान डच् । ननु उपगणा इत्यत्र डचि सति असति च रूपसाम्यात् किं तन्निषेधेनेत्यत आह-अत्र स्वरे विशेष इति । डचि सति चित इति अन्तोदात्तत्वं स्यादित्यर्थः। संख्याया इति । संख्यान्ततत्पुरुषस्य समासान्तो डच 'विभाषा सपूर्वस्य' इत्यादिनिर्देशादिति भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । प्रकृत्याशिषि । कथं तर्हि 'यजमानस्य सपुत्रस्य सभ्रातृकस्य सपरिवारस्यायुरारोग्यैश्वर्याभिवृद्धिरस्तु' इत्यादिप्रयोगाः संगच्छन्त इति चेत्-उच्यते-‘ऐश्वर्याभिवृद्धिरस्त्विति भवन्तोऽनुब्रवन्तु' इत्येतत्प्रार्थनावाक्यम्, न त्वाशीर्वचनम् । यच्चाशीर्वचनम् 'तथास्तु' इति तत्र हि सपुत्रकेत्यादि न प्रयुज्यत एवेति न काप्यनुपपत्तिः । बहवीही संख्येये । व्यत्ययेन पञ्चम्यर्थे सप्तमीत्याह-यो बहुव्रीहिस्तस्मादिति । उपगणा इत्यत्र डचि सत्यसति च रूपे विशेषो नास्तीत्याह- स्वरे विशेष इति । डचि सति 'चितः' इत्यन्तोदात्तत्वं स्यात् , असति तु पूर्वपदप्रकृतिस्वर इत्यर्थः । न च सत्यपि डचि परत्वात्पूर्वपदप्रकृतिखर एव स्यादिति शङ्कयम् , 'चितः' इति
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy