________________
१६२ ]
सिद्धान्तकौमुदी। [बहुव्रीहिसमासत्रिंशतो निखिशानि वर्षाणि चैत्रस्य । निर्गतस्त्रिंशतोऽङ्गलिभ्यो निस्त्रिंशः खड्गः । ८५२ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गाषच् । (५-४-११३) व्यत्ययेन षष्ठी । स्वागवाचिसक्थ्यच्यन्ताबहुव्रीहेः षस्यात् । दीर्वे सक्थिनी यस्य स दीर्घसक्थः। जलजाती । 'स्वाहात्' किम्-दीर्घसक्थि शकटम् । स्थूलाता वेणुयष्टिः । वक्तव्य इत्यर्थः । निस्त्रिशानीति । 'निरादय क्रान्त-' इति तत्पुरुषः, डच् , 'टेः' इति टिलोपः । त्रिंशतोऽधिकानीति यावत् । निस्त्रिश इति । समासादि पूर्ववत् । त्रिंशदधिकाङ्गलिरित्यर्थः । न च गवां विंशतिर्गोविंशतिरित्यत्रातिप्रसङ्गः शक्यः, 'अव्ययादेः' इति विशेषणादिति भाष्ये स्पष्टम् । न चैकाधिका विंशतिरेकविंशतिरित्वत्र 'संख्ययाव्यय-' इति समासे सति 'बहुव्रीहौ संख्येये-' इति डच शङ्कयः, अन्यत्राधिकलोपादिति वार्तिकादित्यास्तां तावत् । बहुव्रीहौ । व्यत्ययेनेति । सक्थ्यक्ष्णोरिति षष्ठी पञ्चम्यर्थे, 'व्यत्ययो बहुलम् ' इति च्छन्दसि वचनादित्यर्थः । 'छन्दोवत्सूत्राणि भवन्ति' इति भाष्यम् । 'बहुव्रीहौ' इति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह-स्वाङ्गवाचीति । सक्थ्यक्ष्यन्तादिति । बहुव्रीहिविशेषणत्वात् तदन्तविधिरिति भावः । षच् स्यादिति । समासान्तस्तद्धितश्चेति ज्ञेयम् । दीर्घसक्थ इति । षच् 'यस्येति च' इति लोपः। जलजाक्षीति । जलजे इव अक्षिणी यस्या इति विग्रहः । समासे षचि 'नस्तद्धिते' इति टिलोपः। षित्त्वाद् ङीष् । षित्त्वं डीपर्थमिति भावः । दीर्घसक्थि शकटमिति । दीर्घ सक्थिनी सक्थिसदृशावीषादण्डौ यस्येति विग्रहः । अत्र सक्थिशब्दार्थयोरीषादण्डयोः 'अद्रवं मूर्तिमत्स्वानाम्-' इत्यादिस्वाङ्गलक्षणाभावान्न षजिति भावः । अत्र 'स्वाङ्गात्' इत्यस्य प्रत्युदाहरणान्तरमाह-स्थूलाक्षेति । स्थूलानि अक्षीणि पर्वग्रन्थयो यस्या इति बहुव्रीहिः । अस्वागत्वादिह न जिति भावः । न षजभावेऽपि नान्तलक्षणीपि स्थूलाक्षिणीति खरस्य सतिशिष्टत्वात् , डचश्चित्करणस्य वैयर्थ्यापत्तेश्च । संख्याया इति । संख्यान्तस्य तत्पुरुषस्य चरमावयवो डज्वक्तव्य इत्यर्थः । एकविंशतिरित्यादौ तु न भवति, 'अन्यत्राधिकलोपात्' इति वार्तिककारोक्तेः। व्यत्ययेन षष्ठीति । एतच्चोपलक्षणम् , सप्तम्यपि व्यत्ययेनैव, तदाह-वाङ्गवाचीत्यादि। अद्रवं मूर्तिमत्-' इत्यादिलक्षणलक्षितं खाझं गृह्यते । तेन शोभनाक्षी प्रतिमेत्यादिप्रयोगो निर्बाध एवेत्याहुः । षच् स्यादिति । षो ङीषर्थः । चस्तु 'चितः' इत्यन्तोदात्तार्थः । तेनात्र पूर्वपदप्रकृतिखरो न भवति । स्थूलाक्षेति । स्थूलानि अक्षीणि पर्वाङ्कराणि यस्याः सा । प्राचा तु
१ ग्रन्थोऽयमसङ्गत इव प्रतिभाति, अक्षिशब्दस्य नान्तत्वाभावात् ।