________________
१६० ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासमुसलेन । ८४८ तेन सहेति तुल्ययोगे । (२-२-२८) तुल्ययोगे वर्तमान सह इत्येतत्ततीयान्तेन प्राग्वत् । ८४६ वोपसर्जनस्य । (६-३-८२) बहुव्रीहे. रवयवस्य सहस्य सः स्थाद्वा । पुत्रेण सह सपुत्रः, सहपुत्रो वा पागतः । तुल्य. योगवचनं प्रायिकम् । सकर्मकः । सलोमकः । ८५० प्रकृत्याशिषि । आदिवृद्धिरिति भावः । स्वायम्भुवमिति पाठे तस्येदमित्यण । हलेन मुसलेनेति । भत्र असरूपत्वाद् हलामुसलीति न भवतीति भावः । तेन सहेति तुल्ययोगे। तुल्ययोग इति । युगपत्कालिकक्रियायोग इत्यर्थः । तृतीयान्तेनेति । तेनेत्यनेन तल्लाभादिति भावः । प्राविदिति । समस्यते स बहुव्रीहिरित्यर्थः । असामानाधिकरण्यार्थ कवभावार्थ चेदम् । वोपसर्जनस्य। उत्तरपदे इत्यधिकृतम् । 'सहस्य सः संज्ञायाम्' इत्यतः सहस्य स इत्यनुवर्तते । उपसर्जनम् अस्यास्तीत्युपसर्जनः, मवर्षे अर्शश्राद्यच् । उत्तरपदाक्षिप्तसमासो विशेष्यम् । उपसर्जनवतः समासस्येत्यर्थः । पयपि सर्वेषामपि समासानां कश्चिदवयवः उपसर्जनमेव । तथापि सामर्थ्यादुपसर्जन. सर्वावयवकस्येति लभ्यते । तथा च उपसर्जनस्येत्यनेन बहुव्रीहेरिति लब्धम् । अवयवषष्ठयेषा तदाह-बहुव्रीहेरवयवस्येत्यादिना । बहुव्रीहेरिति किम् , सहयुद्ध्वा । 'राजनि युधिकृमः' 'सहे च' इति क्वनिप् । उपपदसमासः । अबहुव्रीह्यवयवस्य सहस्य सत्वं न । सपुत्र इति। सभावे रूपम् । पुत्रेण युगपदागत इत्यर्थः। प्रायिकमिति । इतिशब्दादिदं लभ्यते । “विभाषा सपूर्वस्य' इत्यादिनिर्देशाचेति पदमिति स्थानिकप्लुतनिषेधस्यानित्यत्वासिद्धया क्लु ३प्तशिखेत्यत्र प्लुतो न सिध्यति, ततश्च तत्सिध्यर्थमुक्वज्ञापनायोभयोपदेश श्रावश्यक इति । अन्ये तु ऋकारात्पृथग लकार उपदेष्टम्य एव ऋकारोपदेशेन लुकारस्यालाभात् । न च 'ऋलवर्णयोमिथः सावर्ण्यम्-' इति वचनात् तल्लामः शङ्कयः । वार्तिकं दृष्ट्वा सूत्रकृतोऽप्रवृत्तेरित्याहुः। तेन सहेति । तुल्ययोगे किम् , 'सहैव दशभिः पुत्र रं वहति गर्दभी' । इह सहशब्दो न तुल्ययोगवचनः । भारकमेकवहनक्रियायां तु पुत्राणामनन्वयात् । किंतु विद्यमानवचनः । दशसु पुत्रेषु विद्यमानेष्वित्यर्थः। एतच्च सहशब्दस्य विद्यमानार्थत्वमप्यस्तीति वक्तुमुक्तम् । प्रत्युदाहरणशरीरं तु सह पुत्ररियेवेति बोध्यम् । तृतीया तु 'सह युक्त-' इत्यनेनैव । वोपसर्जनस्य । उपसर्जनस्येति न सहस्य विशेषणम्, अव्यभिचारात् । किं तूत्तरपदेन संनिधापितस्य समासस्य । तचावयवद्वारकम् , उपसर्जनसवियवकस्य समासस्येत्यर्थः । तदेतत्फलिमाह-बहुव्रीहेरिति । तेनेह नसहयुवा, सहकृत्वा । 'राजनि युधि कृषः' 'सहे च' इति क्वनिपि उपपदसमासाविमौ । 'सहस्य सः संज्ञायाम्' इत्यतोऽनुवर्तनादाह-सहस्य सःस्यादिति ।प्रायिकमिति।