________________
प्रकरणम् १६] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५६ श्रोर्गुणः । (६-४-१४६) उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । 'मोरोत्' इति वक्तव्ये गुणोनिः 'संज्ञापूर्वको विधिरनित्यः' (प १४) इति ज्ञापयितुम् । तेन स्वायम्भुव इत्यादि सिद्धम् । सरूपे इति किम्-हलेन अस्य मुष्टिभिः सः, तस्य मुष्टिभिश्चायमित्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । मुष्टया मुष्टया इत्यनयोः समासे सति सुब्लुगादि पूर्ववत् । मुष्टामुष्टीति पूर्वपदान्नस्य आत्वमपाणिनीयमेव । पोर्गुणः। ओः इत्युकारात् षष्ठयेकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । 'नस्तद्धिते' इत्यनुवर्तते। तदाह-उवर्णान्तस्येति । बाहूबाहवीति । बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः । समासः, सुब्लुक् , पूर्वपदस्य दीर्घः, इच् । 'यस्येति च' इति बाधित्वा ओर्गुणः, अवादेशः। अव्ययत्वात् सुपो लुक् । ननु गुण उकारस्थाने भवन् स्थानसाम्यादोकार एव भवति । ततश्च लाघवाद् 'पोरोत्' इत्येव सिद्धे गुण इति गुरुनिर्देशो व्यर्थ इत्यत आह -ओरोत् इति । न चैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यम् , विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् । न च 'श्रोत्' इति “तपरस्तत्कालस्य' संज्ञेति वाच्यम् , विधीयमानत्वादेव तत्कालत्वसिद्धया तकारस्य उच्चारणार्थत्वात् । स्वायम्भुव इति । खयम्भुवोऽपत्यमित्यर्थे अण, स्वायंभुवः, संज्ञापूर्वकत्वेनानित्यत्वादोर्गुणाभावे उवङ्, इत्यपाणिनीयम् । अतएव मुष्टामुष्टीत्युदाहरणमप्यप्रामाणिकमेव । एतच्च मनोरमायां स्पष्टम् । अोर्गुणः । तद्धिते किम् , पटवी । वाय्वोः । गुणोक्तिरिति । यद्यपि 'ओरोत्' इति सूत्रितेऽपि 'भस्य तद्धिते' इत्येवंरूपसंज्ञापूर्वकत्वमस्त्येव, तथापि विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वको विधिरिति भावः । यद्यपि ओदिति तपरस्तत्कालस्य संज्ञैव तथापि इह तकार उच्चारणार्थस्तपरत्वे फलाभावाद् ‘ोरो' इत्येव वास्तु । 'खं रूपं शब्दस्य-' इति तु प्रत्याख्यातमिति भावः। स्यादेतत्-तपरस्तत्कालस्य संज्ञा भवतीति 'गुरोरनृतः-' इति प्लुतनिषेधस्यापि संज्ञापूर्वकत्वेनानित्यत्वात् क्ल३प्तशिखेत्यत्र प्लुतसिद्धये 'ऋलक्' सूत्रे ऋकारात्पृथक् लकारोपदेशो व्यर्थः । सावरायें सत्यप्युक्तरीत्या लकारस्य प्लुतसिद्धरनित्यत्वज्ञापनस्य निष्फलत्वात् । न चैवमपि ऋदिताम् नृदित्कार्यम् लुदितामृदित्कार्य च वारयितुमनित्यत्वज्ञापनमावश्यकमिति वाच्यम् । राजुभ्रातृगम्लुशक्त इति पृथगनुबन्धकरणसामर्थ्याद् 'नाग्लोपिशास्वृदिताम् ', 'लूदितः परस्मैपदेषु' इति पृथगनुवादसामर्थ्याच्च तत्कार्याणामसांकर्यसिद्धेरिति चेत्-अत्राहुः-'गुरोरनृतः-' इत्यनेन ऋद्भिमस्य गुरोः प्लुतविधानाद् 'अनृतः' इत्येतदनूद्यमानगुरुविशेषणत्वेनानुवादरूपमेव, न तु विधेयसमर्पकसंशारूपं