________________
१५८ ]
सिद्धान्तकौमुदी। [ बहुव्रीहिसमासलभ्यते । 'मन्येषामपि दृश्यते' (सू ३५३६ ) दीर्घ इत्यनुवर्तते । इचि कर्मग्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घः । इसमासान्तो वक्ष्यते । तिष्ठद्गुप्रभृतिविप्रत्ययस्य पाठादव्ययीभावत्वमव्ययत्वं च । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैश्च दण्डैश्च प्रहृत्पदं युद्धं प्रवृत्तं दण्डादण्डि । मुष्टीमुष्टि ।८४७ विषये इत्यध्याहारे किं प्रमाणमित्यत आह–इतिशब्दादिति । इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः । केशाकेशीत्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं बहुव्रीहिर्भवतीत्यर्थः। अन्येषामपि दृश्यते । अनुवर्तत इति । 'ठूलोपे-' इत्यत इति शेषः । 'नहिवृतिवृषि-' इत्यादिपूर्वसूत्रोक्तादन्येषामपि दी| दृश्यत इत्यर्थः । अतिप्रसङ्गमाशङ्कयाह--कर्मव्यतिहारे बहुवीही पूर्वपदान्तस्य दीर्घ इति । बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ इत्यर्थः । तेन तुराषाडित्यादौ दीर्घो निर्बाधः । दृशिग्रहणादयमर्थो लभ्यते । वक्ष्यत इति । 'इच्कर्मव्यतिहारे' इति सूत्रेणेति शेषः । तिष्ठद्गुप्रभृतिष्विति । वृत्तिग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र अव्ययीभाव इत्यनुवृत्तेरिति भाव । अव्ययत्वमिति । 'अव्ययीभावश्च' इत्यनेनेति शेषः। 'अव्ययादाप्सुपः' इति सुब्लुक् तत्फलमिति भावः । गृहीत्वेति । परस्परमिति शेषः । न च केशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्च युद्धकट्टेकत्वात् समानकतेकत्वाभावात् कथमिह क्त्वाप्रत्यय इति वाच्यम् , गृहीत्वेत्यनन्तरं स्थितयोरित्यध्याहारात् । ततश्च अस्य केशेषु सः, तस्य केशेष्वयमित्येवं परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहवाक्यं फलितम् । केशाकेशीति । केशेषु केशेष्वित्यनयोग्रहणाद्यन्तर्भावेन वृत्तिघटकयोः समासे सति सुग्लुक पूर्वपदस्य दीर्घः, इच्समासान्तः । 'यस्येति च ' इत्यकारलोपः । श्रव्ययत्वात्सुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकशेषापवादोऽट बहुव्रीहिसमासः अप्रथमान्तार्थश्च । दण्डैश्चेति । अस्य दण्डैः सः, तस्य दण्डैर यमित्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः । दण्डादराडीति । दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोः समासे सति सुब्लुक् , पूर्वपदस्य दीर्घः, इच् , 'यस्येति च' इति अकारलोपः । अव्ययत्वात् सुब्लुक् । मुष्टीमुष्टीति । प्रहणं परस्परप्रहरणं च । ननु 'ग्रहणविषये सप्तम्यन्ते समस्येते प्रहरणविषये तृतीयान्ते च' इत्यादिविषयविशेषः सूत्राक्षरैः कयं लभ्यते इत्यत आह-इतिशब्दादिति। स हि लौकिकी विवक्षा दर्शयति । लोके केशाकेशीत्यादिप्रयोगे यावानर्थः प्रतीयते तावत्यर्थे बहुव्रीहिर्भवतीत्यर्थः । अन्येषामपि दृश्यते । अत्र प्राचा दृशिग्रहणात्कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घत्वम् , 'श्रात्वं वानचि' इत्युक्तम् । तत्र 'श्रात्वं वा'