________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५७ पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाधौगिकानां न । ऐन्द्रयाच कौबेर्याश्चान्तरालं दिक् । ८४६ तत्र तेनेदमिति सरूपे । (२-२-२७) सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणविषये इदं युदं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे घोत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो दक्षिणस्याश्चेति । दक्षिणपूर्वेति । स्त्रीत्वं लोकात् । यता अन्तरालमिह दिगेव गृह्यते । 'सर्वनाम्नो वृत्तिमात्रे पुंवत्त्वम् ' इति भाष्यम् । यद्यप्युपसर्जनत्वान सर्वनामत्वम् । तथापि भूतपूर्वगत्या सर्वनामत्वमादाय पुंवत्त्वं भवति, अत एव भाष्यात् । ननु दिशोरन्तराले इत्येव सिद्ध नामग्रहणं किमर्थमित्यत आहनामग्रहणादिति । दिक्षु रूढाः शब्दा दिङ्नामानीत्यनेन विवक्षिताः। ऐन्द्रीशब्दः कौबेरीशब्दश्चेन्द्रसंबन्धात् कुबेरसंबन्धाच प्रवृत्तौ यौगिक एव न रूढ इति भावः । तत्र तेन । समास इति, बहुव्रीहिरिति चाधिकृतम् । तत्र इत्यनेन सप्तम्यन्ते पदे विवक्षिते । प्रहणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् । तेन इत्यनेन तु तृतीयान्ते पदे विवक्षिते । प्रहरणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम् । सरूपे इति प्रथमाद्विवचनान्तं पदविशेषणम् । ग्रहणविषये इति प्रहरणावषये इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासंख्यमन्वेति । इदम् इत्यर्थनिर्देशः। युद्ध प्रवृत्तमिति तद्विशेष्यमध्याहार्यम् । कर्मव्यतिहारे द्योत्ये इत्यप्यध्याहार्यम् । तदाहसप्तम्यन्त इति । प्रथमाद्विवचनमिदम् । ग्रहणविषय इति । गृह्यते अस्मिनिति प्रहणम् , केशादि, अधिकरणे ल्युट , तद् विषयः वाच्यं ययोस्ते, ग्रहणविषये, प्रहणवाचके इति यावत् । प्रहरणविषय इति । प्रहियते अनेनेति प्रहरणं दण्डादि तद् विषयः वाच्यं ययोस्ते प्रहरणविषये प्रहरणवाचके इति यावत् । अत्रापि सरूपे पदे इत्यन्वेति । इदं युद्धं प्रवृत्तमित्यर्थ इति । इदमिति सामान्यार्थनिर्देशः । युद्धमिति विशेषनिर्देशः । अतः केशाकेशि युद्धमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु ग्रहणविषये प्रहरणवृत्तौ तु सुजान्तर्भावेणैवैकार्थीमावाश्रयणात्सुचोऽप्रयोगः । संख्ययेति किम् , चत्वारो ब्राह्मणाः । अव्ययेत्यादि किम्, ब्राह्मणाः पञ्च । संख्येयेति किम् , अधिका विंशतिर्गवाम् । संख्यार्थेयं संख्येति न समासः । आदशतः संख्याः संख्येये वर्तन्ते न तु संख्यायाम् । विंशत्याद्याः संख्यास्तु संख्येयसंख्ययोर्वर्तन्ते। यदा तु संख्येये विंशतिशब्दस्तदा भवत्येव समासः अधिकविंशा इति । तत्र तेनेदम् । ग्रहणविषय इति । गृह्यते इति ग्रहणं केशादि, तद्विषयो वाच्यो ययोखे सरूपे । प्रहियते अनेनेति प्रहरणं दण्डादि, तद्विषयो वाच्यो ययोरिति प्राग्वत् । कर्मव्यतिहारः परस्पर