________________
१५६ ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासद्वित्राः। द्विरावृत्ता दश द्विदशाः, विंशतिरित्यर्थः । ८४५ दिनामान्यन्तराले । (२-२-२६) दिशो नामान्यन्तराल्ने वाध्ये प्राग्वत् । दक्षिणस्याश्च संख्यासनसंख्यावन्त इत्यर्थः । इचि कृते श्रासन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घ बाधित्वा 'अतो गुणे' इति पररूपे, आसन्नविंशशब्दः अदन्तः । 'उत्तरपदत्वे चापदादिविधौ प्रतिषेधः ' इति प्रत्ययलक्षणाभावेनापदत्वात् । अथादूरशब्दस्योदाहरति-अदूरत्रिंशा इति । त्रिंशतः अदूरा इति विग्रहः । त्रिंशसंख्यायाः अदूरसंख्यावन्त इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति-अधिकचत्वारिंशा इति । चत्वारिंशतोऽधिका इति विग्रहः । चत्वारिंशत्संख्याया अधिकसंख्यावन्त इत्यर्थः । डचि टिलोपः। संख्यावाचकशब्दस्य संख्यावाचकशब्देन समासमु. दाहरति-छो वा धयो वा द्वित्रा इति । वाथै बहुव्रीहिः, द्वित्र्यन्यत। इत्यर्थः । डचि टिलोपः । ननु द्वित्रा आनीयन्तामित्युक्ते कदाचिद् द्वावानयति, तदा कथं बहुवचनंमिति चेत् , अत्र भाष्ये 'अनिश्चये बहुवचनं प्रयोक्तव्यम्' इति वचनात् समाहितम् । तथा 'कार्यान्वये विकल्पः, शब्दात्तु नियमेन कोटिद्वयोपस्थितिः । तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया । अतः 'शब्दानियमेन पञ्चानामुपस्थितिः' इत्यपि समाहितम् । न च वाथेप्राधान्याद् 'अनेकमन्यपदार्थे' इत्येवात्र सिद्धमिति वाच्यम् , 'शेषाद्विभाषा' इति कबभावार्थकत्वात् । स हि कप् 'अनेकमन्यपदार्थे' इति विहितबहुव्रीहावेव प्रवर्तत इति भाष्ये स्पष्टम् । अथ संख्यायाः संख्यया समासे उदाहरणान्तरमाह-द्विरावृत्ता दश द्विदशा इति । शब्दशक्तिस्वाभाव्यास्सुजर्थान्तविण पूर्वपदस्य वृत्त्याश्रयणात् समासे सुचो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसंख्याकदशत्ववन्त इत्यर्थः । फलितमाह-विंशतिरित्यर्थ इति । दिङ्नामानि । नामानीत्यनन्तरं सुबन्तानि परस्परमिति शेषः। प्राग्वदिति । समस्यन्ते स च बहुव्रीहिरित्यर्थः । नामानीति बहुत्वमविवक्षितमित्यभिप्रेत्योदाहरतिवत्त्वादिति शङ्कयम् । अज्झलादेशोऽजादेशो न भवतीति 'अचः परस्मिन्-' इत्यस्याप्रवृत्तेः । 'स्थानिवदादेशः-' इति तु न प्रवर्तत एव, शास्त्रीय कार्ये हि कर्तव्ये तत्प्रवृत्तिः, न तु विघातार्थमिति सिद्धान्तात् । विंशतेरिति । इहापि आसन्ना विंशतिर्येषामिति न विगृहीतमुक्तयुक्तः । अदरेत्यादि । अदूरास्त्रिंशतः, अधिकाश्चत्वारिंशत इति विग्रही बोध्यौ। द्वित्रा इति । वार्थेऽयं बहुव्रीहिः । स च वार्थो न विकल्पः, पक्षे द्विवचनस्याप्यापत्तेः, किं तु संशयः । स चानियतसंख्यावमी, तत्र च त्रयोऽपि सवेदा भासन्त इति तदपेक्षं बहुवचनमेव । आनयनादिक्रियान्वयस्तु द्वयोस्त्रयाणां वेत्सनियत एवेत्याहुः । द्विरावृत्ता इति । सुजफै बहुव्रीहिरित्यर्थः ।