________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५५ बहुव्रीहिः । दशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । 'बहुव्रीहौ संख्येये-' (सू ८११) इति वक्ष्यमाणो डच् । ८४४ ति विशितेडिति । (६-४-१४२) विंशतेर्भस्य तिशब्दस्य लोपः स्याडिति । प्रासनविंशाः, विशतेरासना इत्यर्थः । अदूरनिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा शब्दपर एव । अत्रेदमवधेयम्-विंशतेः प्रागेकादिशब्दाः संख्येयेषु वर्तन्ते विशेध्यलिङ्गाश्च । दशादयो नित्यबहुवचनान्ताः । विंशत्यादिशब्दास्तु नित्यमेकवचनान्ताः संख्यायां संख्येये च वर्तन्ते नवतिपयन्ता नित्यस्त्रीलिङ्गाश्च । यथा विंशतिब्राह्मणाः, ब्राह्मणानां विंशतिरिति । यदा विंशत्यादिः संख्या, ततो द्वित्वबहुवचने स्तः । यथा गवां द्वे विंशती इति, चत्वारिंशदिति गम्यते । गवो तिस्रो विंशतय इति, षष्टिरिति गम्यते । 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः । संख्यायें द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥' इत्यमरः। अत्राव्ययस्योदाहरतिदशानां समीपे ये सन्ति त उपदशा इति । उपशब्दस्य समीगर्थकस्याव्ययीभाव उक्तः । इह तु समीपवर्तिनि उपशब्दो वर्तते। दशसमीपवर्तिन इत्यर्थः । ततश्च अन्यपदार्थवृत्तित्वाभावादप्रथमान्तत्वाच्च 'अनेकमन्यपदार्थे' इत्यप्राप्ते वचनमिदम् । तस्य दशानां वृक्षादीनां समीपवर्तिनो गवादय इत्यर्थभ्रमं वारयतिनवैकादश वेत्यर्थ इति । सामीप्यमिह दशन्शब्दार्थगतदशत्वापेक्षम् , एकार्थीभावबलात् । तथा च दशत्वसमीपवर्तिसंख्यावत्सु उपशब्द इति फलति । ततश्च दशत्वसमीपवर्तिसंख्यावन्त इति बोधपर्यवसानं भवति । डजिति । उपदशशब्दात् डचि 'नस्तद्धिते' इति टिलोप इति भावः । आसन्नशब्दस्य विंशतिशब्देन षष्टयन्तेन समासे डचि कृते 'टेः' इति इकारमात्रस्य लोपे प्राप्ते आहति विंशतेर्डिति । तीति लुप्तषष्ठीकम् । 'भस्य ' इत्यधिकृतम् । 'अल्लोपोऽनः इत्यस्माल्लोप इत्यनुवर्तते, तदाह-विंशतर्भस्येति । 'अलोऽन्त्यस्य ' इति न भवति, ' नानर्थकेऽलोऽन्त्यविधिः' इत्युक्तेः । आसन्नविंशा इति । विंशतिपूर्वेणाप्राप्तौ वचनम् । दशानामिति । उपगता दश येषामिति न विगृहीतम् । पूर्वे. णैव सिद्धेः । उपदशा इति । उपशब्दः समीपे समीपिनि च वर्तते । आधे श्रव्ययीभावः, द्वितीये तु बहुव्रीहिरिति विवेकः । नव एकादश वेत्यर्थ इति । संख्याद्वारकसबन्धस्यान्तरङ्गत्वादिति भावः । तेन दशानां वृक्षादीनां समीपे ये सन्ति गवादयते उपदशा इति न प्रयुज्यन्ते। तिविश। सूत्रे तीति लुप्तषष्ठीकमित्याशयेनाह–तिशब्दस्येति । आसन्नविशा इति । इह तिलोपोत्तरम् 'अतो गुणे' इति पररूपमेव, न तु टिलोपः, टिलोपस्याभीयत्वेनासिद्धत्वात् । न चात्र पररूपमपि न स्याट्टिलोपस्य स्थानि