SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ ] सिद्धान्तकौमुदी | [ बहुव्रीहिसमास ( ६-३-४१ ) जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवार्य निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र 'भस्याढे - ' (वा ३१२८) इति तु भवत्येव । ८४३ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये । (२-२-२५ ) संख्येयार्थया संख्यया श्रव्ययादयः समस्यन्ते स 1 इत्यर्थे ‘मनश्च' इति णिनिः, उपधावृद्धिः, उपपदसमासः, सुब्लुक्, पुंवत्त्वे ङीषो निवृत्तिरिति भावः । जातेश्च । ईत इति श्रस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्याहजातेः परो यः स्त्रीप्रत्यय इति । शूद्राभार्य इति । 'शूद्रा चामहत्पूर्वा-' इति जातिलक्षणङीषोऽपवादष्टाप् । पुंवत्त्वनिषेधान्न टापो निवृत्तिः । ब्राह्मणीभार्य इति । पुंवत्त्वनिषेधान्न शार्ङ्गरवादिडीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिकमित्यत्र 'व्य चित्तहस्ति-' इति ठकि हस्तिनीशब्दस्य 'भस्याढे -' इति कथं पुंवत्त्वम्, 'जातश्च' इति निषेधादित्यत आह-सौत्रस्यैवायं निषेध इति । सूत्रविहितस्येत्यर्थः । ‘भस्याढे-' इति तु वार्तिकमिति भावः । एतच्च 'न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् । संख्यया । शेषप्रहणम् 'अनेकमन्यपदार्थे' इति च निवृत्ते । बहुव्रीहिरित्यनुवर्तते, 'सुप्सुपा' इति च । संख्येये इत्येतत्संख्ययेत्यत्रान्वेति । संख्यया परिच्छेद्यं संख्येयम्, तत्रार्थे विद्यमानया संख्ययेति लभ्यते । संख्याशब्दश्चायं न स्वरूपपरः, किंतु एकादिशतान्तशब्दपरः । तदाह – संख्येयार्थया संख्ययेति । एकादिशब्देन सुबन्तेनेत्यर्थः । श्रव्ययादय इति । अव्यय, श्रासन्न, अदूर, अधिक, संख्या एते सुबन्ता इत्यर्थः । अत्रापि संख्याशब्दो न स्वरूपपरः, किंतु एकादिइति निषेधान्दोषभावः । जातेश्च । यद्यत्र जातेरित्येवं विहित इति व्याख्यायेत तर्हि हास्तिकमित्युदाहरणे 'श्रपसंख्यानिकस्य नायं निषेधः' इति भाष्योतिर्न संगच्छेत, हस्तिन्शब्द 'जाते:-' इति ङीष् न विहितः, अदन्तत्वाभावात्, किंतु 'ऋनेभ्यः-' इति ङीब्वहित इति पुंवद्भावनिषेधस्याप्रसक्तेरत श्राह - -जातेः पर इति । एवं च हस्तिनीभार्यः, शुनीभार्य इत्यादावपि निषेधः सिध्यतीति भावः । यः स्त्रीप्रत्यय इति । टाबादिः । प्राचा तु ङीषेवोपात्तस्तदयुक्तमिति ध्वनयन्नुदाहरति — शूद्राभार्य इति । ब्राह्मणीति । शार्ङ्गरवादित्वान्बीन् । प्राचा तु ङीन पुंवदिति व्याख्याय ब्राह्मणीभार्य इत्युदाहृतम्, तद्रभसात् । सौत्रस्यैवेति । व्याख्यानादिति भावः । 'न कोपधायाः' इति निषेधस्तु 'भस्याढे -' इति प्राप्तस्यापि भवत्येव । तेन विलेपिकाया धर्म्यं वैलेपिकमिति सिद्धम् । यदि 'अरामहिष्यादिभ्यः' इत्यणि पुंवद्भावः स्यात्तकारोऽत्र न श्रूयेत । एतच्च 'न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् । प्रासङ्गिकं समाप्य प्रकृतमनुसरति — संख्ययेति । सामानाधिकरण्यस्यान्यपदार्थवृत्तेश्च विरहात्
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy