SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १६] बालमनोरमा तत्त्वबोधिनीसहिता। [१५३ सौवश्वभार्यः । ८४१ स्वानाचेतः। (६-३-४०) स्वानाच ईकारखदन्ता श्री न पुंवत् । सुकेशीभार्यः । स्वाहात् किम्-पटुभार्यः । इतः किम्-अकेशभार्यः । 'प्रमानिनीति वक्तव्यम्' (वा ३९३२) सुकेशमानिनी । ८४२ जातेश्च । तात्कालिकसाहित्यं तदभावादित्यर्थः । 'वृद्धस्तद्धितस्य' इत्येतावत्युक्तेऽपि निमित्तत्वसंबन्धं वृद्धेरिति षष्ठीमाश्रित्य 'वृद्धिनिमित्ततद्धितस्य' इत्यर्थलाभे सति निमित्तग्रहणात् फलोपहितनिमित्तत्वं विवक्षितमिति विज्ञायत इति भावः । यद्यप्यैजागमसिद्धवृद्धिं प्रति अएप्रत्ययः फलोपहितमेव निमित्तम् । तथापि वृद्धिशब्देन विहितां वृद्धि प्रति फलोपहितं निमित्तं न भवत्येवेति न दोषः । वृद्धिशब्देन विहितैव वृद्धिरिह गृह्यत इत्यत्रापि इदमेव निमित्तग्रहणं लिङ्गम् । अन्यथा ऐजागमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात् तन्निमित्तग्रहणं निष्फलं स्यात् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः । स्वाङ्गाच्चेतः । ईत इति च्छेदः । तदाह-स्वाङ्गाद्य ईकार इति । सुकेशीभार्य इति । सुशोभनाः केशा यस्याः सा सुकेशी, 'स्वानाञ्चोपसर्जनात्' इति ङीष् । 'स्त्रियाः पुंवत्-' इति प्राप्तस्य निषेधः । पटुभार्य इति । पट्वी भार्या यस्येति विग्रहः । पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्त्वनिषेधः। किंतु पुंवत्त्वे 'वोतो गुणवचनात्' इति ङीषो निवृत्तिरिति भावः । अकेशभार्य इति । अविद्यमानाः केशा यस्याः सा अकेशा, 'नओऽस्त्यर्थानाम्' इति बहुव्रीहिः, विद्यमानशब्दस्य लोपश्च । स्वाङ्गत्वेऽपि न ङीष् , 'सहनश्विद्यमान-' इति निषेधात् । अतष्टाबेव । अकेशा भार्या यस्येति विग्रहः । स्वाङ्गत्वेऽपि ईकाराभावानपुंवत्त्वनिषेधः । किंतु पुंवत्त्वे टापो निवृत्तिरिति भावः । अमानिनीति । स्वाङ्गाचेति निषेधो मानिशब्दे परतो न भवतीति वक्तव्यमित्यर्थः । सुकेशमानिनीति । सुकेशी मन्यत खरूपयोग्यपरत्वे तु वैयाकरणभार्य इत्यत्र पुंवद्भावो न सिध्येदिति भावः । व्याकरणमधीते वेत्ति वा वैयाकरणी । 'तदधीते तद्वेद' इत्यण । स्वश्वस्यापत्यं स्त्री सौवश्वी 'तस्यापत्यम्' इत्या, उभयत्र णित्त्वात्प्राप्ता आदिवृद्धिः 'न य्वाभ्याम्-' इत्यनेन प्रतिषिध्यत इति नायं वृद्धि प्रति फलोपहितः, किं तु खरूपयोग्यः। यद्यप्यैजागमनिमित्तत्वाद् वृद्धि प्रति फलोपहितोऽपि भवत्ययं तद्धितः, तथापि वृद्धिशब्देन विहितां वृद्धि प्रति न भवतीति भावः । अत्र व्याचक्षते-सूत्रे निमित्तशब्दः फलोपहितपरः, अन्यथा निमित्तग्रहणमनर्थकं स्यात् । वृद्धेस्तद्धितस्येत्युक्तेऽपि निमित्तत्वमेव संबन्ध इति वृद्धिनिमित्तं यस्तद्धित इत्यर्थलाभात् । तेन वृद्धिशब्दन विहिता वृद्धिरित्ययमों लभ्यते । अन्यथा फलोपहितपरत्वलाभो निष्फलः स्यादुक्तदोषतादवस्थ्यादिति । सुकेशीति । 'खानाच्चोपसर्जनात्-' इति ङीष् । अकेशीति । 'सहनश्विद्यमान-'
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy