________________
१५२ ]
सिद्धान्तकौमुदी । [ बहुव्रीहिसमास
काषायी कम्था यस्य स काषायकन्थः । विकारे तु हैमी मुद्रिका मस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधानाभावादिह पुंवत्-वैयाकरणभार्यः, परिमाणे वतुप्' इति तच्छब्दाद्वतुप् तद्धितः, 'आ सर्वनाम्नः' इत्याकारः, उगित्वाद् ङीप् । तावती भार्या यस्येति विग्रहः । पुंवत्त्वाद् ङीपो निवृत्तिः, 'श्रा सर्वनाम्नः ' इत्याकारात्मिकां वृद्धिं प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाभावात्तनिमित्तवतुबन्तस्य न पुंवत्त्वनिषेधः । रक्ते त्विति । रक्तेऽर्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । काषायीति । कषायो 'गैरिको धातुविशेषः, तेन रक्ता काषायी, 'तेन रक्तं रागात्' इत्यणि 'यस्येति च' इति लोपः, आदिवृद्धिः, 'टिड्ढाणञ्-' इति ङीप् । काषायकन्थ इति । पुंवत्त्वे डीपो निवृत्तिः । श्रत्राणः तद्धितस्य रक्तार्थकत्वाद् न पुंवत्त्वनिषेधः । विकारे त्विति । विकारार्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वनिषेध इत्यर्थः । हैमीति । हेस्रो विकारभूतेत्यर्थः । 'अनुदात्तादेव' इत्यञ्, टिलोपः, आदिवृद्धि:, 'टिड्ढ -' इति ङीप्, हैमीति रूपम् । हैमी मुद्रिका यस्येति विग्रहः । पुंवत्त्वे डीपो निवृत्तिः । अत्रामस्तद्धितस्य विकारार्थकत्वान्न पुंवत्त्वनिषेधः । स्यादेतत्, व्याकरणमधीते वेत्ति वा स्त्री वैयाकरणी, 'तदधीते तद्वेद' इत्यण् तद्धितः । 'यस्येति च' इत्यकारलोपः । श्रणो णित्त्वात् तन्निमित्तिकाया यकाराकारस्य पर्जन्यवल्लक्षण प्रवृत्त्य प्राप्ताया वृद्धेः 'न य्वाभ्याम् -' इति निषेधः । यकारात् प्रागैकारागमश्च,‘टिड्ढाणञ्-' इति ङीप् । वैयाकरणी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे डीपो निवृत्तौ वैयाकरणभार्य इति रूपम् । तथा स्वश्वस्यापत्यं स्त्री 'श्रुत इज् ' इति इमोऽपवादः शिवाद्यण्, 'यस्येति च' इति लोपः । प्रथमवकारात् परस्य अकारस्यादिवृद्धेर्न य्वाभ्यामिति निषेधः । प्रथमवकारात् प्रागौकारागमश्च, 'टिड्ढ - ' इति ङीप् । सौवश्वी भार्या यस्येति बहुव्रीहौ पुंवत्त्वे ङीपो निवृत्तौ सौवश्वभार्य इति रूपमिति स्थितिः । अत्रोभयत्रापि आदिवृद्धेः 'न य्वाभ्याम् -' इति निषेधेऽपि श्रणः तद्धितस्य णित्त्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्त्वनिषेधो दुर्वार इत्यत आह- वृद्धिं प्रति फलोपधानाभावादिह पुंवदिति । प्रतीत्यनन्तरं निमित्तस्य तद्धितस्येति शेषः । श्रणः वृद्धिनिमित्तस्य यत् फलं वृद्धिस्तेन उपधानं कृदयम् । तावदिति । तत्परिमाणमस्यास्तावती । ' यत्तदेतेभ्यः -' इति वतुपि ' मा सर्वनाम्नः' इत्याकारो न वृद्धिशब्देन विहित इति भावः । काषायीति । कषायेण रक्तेत्यर्थे 'तेन रक्तं रागात्' इत्यणि ङीप् । हैमीति । हेम्नो विकार इत्यर्थे ‘अनुदात्तादेश्च-' इत्यञ् । फलोपधानेति । निमित्तशब्दः फलोपहितपरः । १ 'गिरिजो' इति कचित् पाठः ।
1