SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५१ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । (६-३-३६) वृद्धिशब्देन विहिता या वृद्धिस्तद्धतुर्यतद्धितोऽरक्तविकारार्थस्तदन्ता स्त्री न पुंवत् । स्रोत्रीभार्यः । माथुरीयते । माथुरीमानिनी । वृद्धिनिमित्तस्य किम्-मध्यमभार्यः । तद्धितस्य किम्-काण्डलावभार्यः । वृद्धिशब्देन किम्-तावनार्यः । रक्के तु मुदाहरति-पञ्चमीभार्य इति । पञ्चमी भार्या यस्येति विग्रहः । अत्र 'स्त्रियाः पुंवत्-' इति प्राप्तं निषिध्यते । पश्चमीपाशति । निन्दिता पञ्चमीत्यर्थः । 'याप्ये पाशप्' । अत्र 'तसिलादिषु-' इति प्राप्तं पुंवत्त्वं निषिध्यते । वृद्धिनिमित्तस्य च । वृद्धेनिमित्तं हेतुरिति विप्रहः । रक्तं च विकारश्चेति समाहारद्वन्द्वः । ततो नञ्तत्पुरुषः । रक्तविकारभिन्नेऽर्थे विद्यमानस्येत्यर्थः । वृद्धिशन्देन विहितैव वृद्धिरिह विवक्षिता, व्याख्यानात् । तदाह-वृद्धिशब्देनेत्यादिना । तदन्तेति । प्रत्ययग्रहणपरिभाषालभ्यम् । स्रौनीति । स्रघ्नो देशः । तत्र भव इत्यण् । 'यस्येति च' इत्यकारलोपः । णित्त्वादादिवृद्धिः, 'टिड्ढाणञ्-' इति डीप् । स्रोधी भार्या यस्येति विग्रहः । 'स्त्रियाः पुंवत्-' इति प्राप्तमिह निषिध्यते । माथुरीयते माथुरीमानिनीति । मथुरायां भवा माथुरी, 'तत्र भवः' इत्यण् , 'यस्येति च' इत्याकारलोपः, श्रादिवृद्धिः, 'टिड्ढ-' इति ङीप् । माथुरीवाचरतीत्यर्थे 'कर्तुः क्यड्-' इति क्यङ् । 'सनायन्ताःइति धातुत्वाल्लडादि, माथुरीयते । माथुरी मन्यते माथुरीमानिनी, 'मनः' इति णिनिः, उपधावृद्धिः । उपपदसमासः, सुब्लुक्, नान्तत्वान्डीप् । इहोभयत्रापि 'क्यस्मानिनोश्च' इति प्राप्तं पुंवत्त्वं निषिध्यते । मध्यममार्य इति । मध्ये भवा मध्यमा, 'मध्यान्मः' इति मः । मध्यमा भार्या यस्येति विग्रहः। "खियाः पुंवत्-' इति पुंवत्त्वम् । अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाभावान पुंवत्त्वनिषेधः। काण्डलावमार्य इति । काण्डं लुनातीति काण्डलावी, 'कर्मण्यम्' इत्यएप्रत्ययः कृत् , 'चोरिणति' इति वृद्धिः, आवादेशः, उपपदसमासः, "टिड्ढाणञ्-' इति डीप । काण्डलावी भार्या यस्येति विग्रहः, पुंवत्त्वाद् छीपो निवृत्तिः । अत्राणः कृत्त्वात्तद्धितत्वाभावाद् न पुंवत्त्वनिषेधः । तावद्भार्य इति । तत् परिमाणमस्यास्तावती, 'यत्तदेतेभ्यः वृत्त्यादिषूदाहृतम् , तत्तु विशेषाभावादिहोपेक्षितम् । पञ्चमीपाशेति । 'याप्ये पाशप्' 'तसिलादिषु-' इति प्राप्तिः । वृद्धिनिमित्तस्य । सौग्नीति । सग्ने भवा । 'तत्र भवः' इत्यणि 'टिड्ढा-' इति डीप् । माथुरीयत इति । मथुरायां भवा माथुरी । सेवाचरतीत्यर्थे 'कर्तुः क्यङ्-' इति क्यङ् । मध्यमेति । मध्ये भवा मध्यमा । 'मध्यान्मः' इति मः । काण्डलावेति । काण्डं लुनातीति काण्डलावी 'कर्मण्यण' । १ क्वचित्तु माधुरीयते माधुरीमानिनीति पाठः।
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy