________________
१५० ] सिद्धान्तकौमुदी। [बहुव्रीहिसमासमद्रिकामानिनी । 'कोपधप्रतिषेधे तद्धितवुप्रणम्' ( वा ३६३१)। नेह - पाका भार्या यस्य स पाकभार्यः । ८३६ संशापूरण्योश्च । (६-३-३८) अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कस्वमस्ति । पत्रमीभार्यः । पञ्चमीपाशा । ८४० पाचिकामार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल । अकादेशटाबित्त्वानि पुंवत्त्वनिषेधश्च । पुंवत्त्वे टाबित्त्वयोनिवृत्तिः स्यात् । रसिकेति । रसोऽस्या अस्तीति रसिका, अत इनिठनौ' इति ठन् । ठस्येकः,टाप् पुंवत्त्वनिषेधः । पुंवत्त्वे तु टापो निवृत्तिः स्यात् । मद्रिकायत इति । मद्राख्ये देशविशेष भवा मद्रिका 'मद्रव्रज्यो कन्' टाप ,इत्त्वम् ,मद्रिकेवाचरतीत्यर्थः । 'क्यङ्मानिनोश्च' इति पुंवत्त्वं प्राप्तमिह निषिध्यते । मद्रिकामानिनीति। मद्रिकां मन्यत इत्यर्थे 'मनश्च' इति णिनिः, उपपदसमासः। इहापि 'क्यमानिनोच' इति पुंवत्त्वं प्राप्तं निषिध्यते । उभयत्रापि पुंवत्त्वे टाबित्वयोः निवृत्तिः स्यात् । तद्धितवुग्रहणमिति । 'न तद्धितवुकोपधायाः' इति सूत्रं पठनीयमिति यावत् । तद्धितसबन्धी वुसंबन्धी च यः ककारः तदुपधायाः स्त्रिया न पुंवत्त्वमिति फलति । मद्रिकायते इति तद्धितकोपधोदाहरणम् । पचिकामार्य इति तु वुसंबन्धिकोपधोदाहरणम् । तद्धितवुग्रहणस्य प्रयोजनमाह-नेहेति । पाकेति । 'अर्भकपृथुकपाका वयसि' इत्युणादिषु कात्यायन्तो निपातितः । अयं तद्धितस्य प्रत्ययस्य वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः । ननु दत्ताशब्दस्य संज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वाभावात् "स्त्रियाः पुंवत-' इत्यस्य प्रसक्तेरेवाभावात् किं तनिषेधेनेत्यत आह-दानक्रियानिमित्त इति । दत्तशब्दोऽयं डित्यादिशब्दवन, किंतु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च संज्ञाभूतः प्रवृत्तः, अतस्तस्य भाषितपुंस्कत्वात् वत्त्वे प्राप्ते निषेधोऽयमित्यर्थः । पूरण्याः पुंवत्त्वनिषेधपाचिकामार्य इति । पचतीति पाचिका ण्वुल् । 'युवो:-' इत्यकादेशे टापि 'प्रत्ययस्थात्-' इतीत्त्वम् । रसिकामार्य इति । रसोऽस्त्यस्या इति रसिका । 'श्रत इनिठनौ' इति ठन् । मद्रिकायत इति । मद्रेषु भवा मद्रिका । 'मद्रवृज्योः कन्' । 'क्यङ्मानिनोश्च' इति पुंवत्त्वप्राप्तिः। सति तु पुंवद्भावे इत्वं न श्रूयतेति भावः। तद्धितवुग्रहणमिति । द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं संबध्यते, तद्धितग्रहणं वुग्रहणं चेत्यर्थः । पाकामायेति । 'अर्मकपृथुकपाका वयसि' इति कप्रत्ययान्तोऽयमुणादिषु निपातितः । न चायं तद्धितस्य ककारो, नापि वोः । 'वयसि प्रथमे' इति मपं बाधित्वा अजादित्वाप् । संशापूरण्योश्च । यत्तु दत्तायते इति क्यङन्तमपि
, 'वुको वा' इति क्वचित् पाठः।