________________
प्रकरणम् १६] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४६ नोश्च । (६-३-३६) एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्न काचिदर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः। ८३८ न कोपधायाः । (६-३-३७) कोपधायाः स्त्रिया न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिकायते । क्यङ्मानिनोश्च । एतयोरिति । क्यङि मानिनि च उत्तरपदे परत इत्यर्थः । एनीवेति । एता चित्रवर्णा । 'चित्रं किमीरकल्माषशवलेताश्च कर्बुरे।' इत्यमरः । एतशब्दः श्वेतपर्याय इति याज्ञिकाः । 'वर्णादनुदात्ता-' इति लीब् नकारश्च । 'उपमानादाचारे' इत्यनुवर्तमाने 'कर्तुः क्यङ् सलोपश्च' इति एनीशब्दात् क्यङि पुंवत्त्वे डीनत्वयोनिवृत्तौ, 'अकृत्सार्वधातुकयोः' इति दीर्घे एतायते इति रूपमिति भावः । श्येनीवेति । श्येतशब्दः श्वेतपर्यायः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः ।' इत्यमरः । क्यडादि पूर्ववत् । ननु 'स्त्रियाः पुंवत्-' इत्येव मानिनीत्युत्तरपदे परतः पुंवत्त्वसिद्धेः मानिन्ग्रहणं किमर्थमित्याशय मानिन्ग्रहणमसमानाधिकरणार्थम् अस्त्रीलिझार्थ चेत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरति-वभिन्नामिति । दर्शनीयमानिनीति । दर्शनीयामिति द्वितीयान्ते उपपदे सुप्यजातौ णिनिरित्यनुवृत्ती 'मनः' इति णिनिप्रत्ययः, उपपदसमासः, सुब्लुक्, असमानाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्त्वे टापो निवृत्तौ 'ऋनेभ्यः-' इति छोपि दर्शनीयमानिनीति रूपम् । या त्वात्मानमेव दर्शनीयां मन्यते तस्या दर्शनीयायाः 'स्त्रियाः पुंवत्-' इत्येव पुंवत्त्वं सिद्धमिति ध्वनयितुं स्खभिन्नामित्युक्तम् । एकस्या एव दर्शनीयाया मनधात्वर्थ प्रति कर्मत्वकर्तृत्वसंभवेऽपि वास्तवाभेदेन मानिनीशब्दसामानाधिकरण्यसत्त्वादिति भावः । अथास्त्रीलिने उत्तरपदे उदाहरति-दर्शनीयामिति । स्त्रियमित्यनन्तरमात्मानमिति शेषः । आत्मानं यो दर्शनीयां स्त्रियं मन्यते स दर्शनीयमानी चैत्र इत्यन्वयः । अत्र उत्तरपदवाच्यस्य मानिनो वस्तुतो दर्शनीयस्त्रीभेदेऽपि आरोपित. तदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुल्लिात्वात् तस्मिन् परे पुंवत्त्वं न प्राप्तमित्यनेन तद्विधिरिति भावः । न कोपधायाः। प्राक् । क्यड्या-एतायत इत्यादि । 'कर्तुः क्यङ् सलोपश्च' क्यङि पुंवद्भावे कृते एतश्येतयोः 'अकृत्सार्व-' इति दीर्घः । मानिन्ग्रहणमसमानाधिकरणार्थमस्यर्थ चेत्याशयेन यथाक्रममुदाहरति-खभिन्नामित्यादिना । दर्शनीयमानिनीति । 'मनः' इति णिनिः । नान्तत्वान् डीप । या त्वात्मानमेव दर्शनीयां मन्यते तत्र 'स्त्रियाः पुंवत्-' इत्येव सिद्धम् । एकस्या अपि ईप्सिततमत्वव्यापाराश्रयत्वविवक्षाभेदेन कर्मत्वकर्तृत्वयोः सत्वेऽपि वास्तवाभेदेन सामानाधिकरण्याविघातादिति भावः ।