________________
१४८]
सिद्धान्तकौमुदी। [बहुव्रीहिसमासषाजाज्ञाद्वा-' (सू ४६६ ) इति लिङ्गात् । तेनाकव्येकशेषवृत्तौ च न । सर्विका। सर्वाः । 'कुक्कुव्यादीनामण्डादिषु' (वा ३६३४) कुक्कुव्या अण्डं कुक्कुटा. एडम् । मृग्याः पदं मृगपदम् । मृगशीरम् । काकशावः । ८३७ क्यङमानितस्याभाव एकिकत्वम् । अत्र पुंवत्त्वे टाप इत्वस्य च निवृत्तौ एककत्वमिति स्यात् , इकारो न श्रूयेत, इत्वनिमित्तस्य टापो निवृत्तत्वात् , पाचिकाशब्दाज जातीयरि पाचकजातीयेतिवत् । ह्रखे सति स्थानिवत्त्वे टापः सत्त्वात् प्राप्तजीविकवदित्वश्रवणमिति फलभेदसत्त्वाद् ‘एकतद्धिते च' इति न गतार्थमित्याहुः । ननु तदितरा तदन्येत्यादावुत्तरपदस्य सर्वनामत्वात् पुंवत्त्वं स्यादित्यत आह-पूर्वस्यैवेदमिति । वृत्तिप्रविष्टानेकभागानां मध्ये किञ्चिदेपेक्षया पूर्वस्यैवेदं सर्वनाम्नः पुंवत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति । 'भस्त्रैषा-' इति सूत्रेण एषा द्वा इत्येतयोः साकच्कयोरपि कापूर्वस्य इत्त्वविधानम् अन्यथा निर्विषयं स्यात् । तद्धितवृत्तौ तयोः सर्वनामतया पुंवस्वनियमादिति भावः । अकचि तद्धितवृत्तावुदाहरति-सर्विकेति । सर्वाशब्दात साकच्काद्यापि 'प्रत्ययस्थात्-' इति इत्त्वे पुंवत्त्वे टाबित्त्वयोः निवृत्तिः स्यादिति भावः । एकशेषवृत्तावुदाहरति-सर्वा इति । टावन्तस्य प्रथमाबहुवचनमिदम् । पुंवत्त्वे टापो निवृत्तिः स्यादिति भावः । कुक्कुट्यादीनामण्डादिष्विति । पुंवत्त्वं वक्तव्यमिति शेषः । असमानाधिकरणार्थमिदमिति सूचयन् षष्ठीसमासमुदाहरति-कुक्कुट्या अण्डं कुक्कुटाएडमिति । पुंवत्त्वेन जातिलक्षणीषो निवृत्तिरिति भावः । एवमप्रेऽपि । मृगक्षीरमिति । मृग्याः क्षीरमिति विग्रहः । काकशाव इति । काक्याः शाव इति विग्रहः । 'पोतः पाकोऽभको डिम्भः पृथुकः शावकः शिशुः' इत्यमरः । प्रियादिपर्युदासो रूपवतीप्रिय इत्यादावुपयुज्यत इति भावः । तदित। तदन्येत्यादावुत्तरपदेऽतिप्रसङ्गमाशङ्कयाह-पूर्वस्यैवेति । वृत्तिघटकानेकभागमध्ये किंचिदपेक्षया पूर्वस्येत्यर्थः । लिङ्गादिति । अन्यथा एषा द्वा एतयोः कात्पूर्वस्य आपि विधीयमानमित्वं निर्विषयं स्यादिति भावः । 'दक्षिणपूर्वा दिक्' इति भाष्योदाहरणमपीह लिमिति बोध्यम् । यत्तु प्राचा 'सर्वनाम्नः समासे पूर्व पुंवत्' इत्युक्तम् , यच्च व्याचख्युः 'वार्तिकार्थमनुवदति सर्वनाम्न इत्यादिना' इति, तत्प्रामादिकम् । 'वृत्तिमात्रे' इति पाठस्यैव भाष्यारूढत्वात् । सर्वमयः सर्वकाम्यतीत्युक्तोदाहरणासिद्धिप्रसङ्गाच्च । बातिकार्थमित्याद्यपि प्रामादिकमेव । वार्तिकप्रन्थे एतदभावात् । न च 'सर्वनानो वृत्तिमात्रे-' इत्येतद्वार्तिकमेव, न तु भाष्यकारेष्टिरिति शङ्कयम् । 'ठक्छसोः-' इति वार्तिकस्य निरालम्बनत्वापत्तेः । भाष्यकारेष्टित्वे तु वार्तिकस्योक्तिसंभव उक्त एव
१ 'काकायाः' इति कचित् पाठः। २ 'पूर्वम्' इति कचिन्नास्ति ।