________________
प्रकरणम् १६ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४७ वृत्तिमात्रे पुंवद्भावः' इति भाष्यकारे व्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति। सर्विका भार्या यस्य स सर्वकभार्यः । सर्वप्रिय इत्यादि । पूर्वस्यैवेदम् , 'भौचेति । एकशब्दस्य तद्धिते उत्तरपदे च परे हवः स्यादिति तदर्थः । एकस्या भान एकत्वम् , एकता। एकस्याः शाटी एकशाटी । वृत्तिमात्र इति । कृत्तद्धितादयो वृत्तयः । मात्रशब्दः कात्स्न्र्ये । 'स्त्रियाः पुंवत्-' इत्यादिसूत्रगतनिमित्ताभावेऽपि भवति । भाष्यकारेष्टयेति । भाष्यकारवचनेनेति यावत् । इदं च 'दक्षिणोत्तराभ्याम्-' इति सूत्रे भाष्ये स्पष्टम् । गतार्थत्वादिति । निवृत्तप्रयोजनकत्व इति भावः । एतत्प्रयोजनस्य 'सर्वनाम्नः-' इति वचनेनैव सिद्धत्वादिति यावत् । 'सर्वनाम्नो वृत्तिमात्रे' इत्यस्य तद्धितवृत्तौ उदाहरति-सर्वमय इति । सर्वस्या आगत इत्यर्थः 'तत
आगतः' इत्यधिकारे 'मटट् च' इति मयट्, 'सर्वनाम्नः' इति पुंक्त्त्वम् , चिन्मयमित्यादिवदत्यन्तखार्थिको वा नयट । अथ सनाद्यन्तधातुवृत्तावुदाहरति-सर्वकाम्यती. ति । सर्वामात्मन इच्छतीत्यर्थे 'काम्यच्च' इति सवाशब्दात् काम्यच् । सर्वनाम्नः इति पुंवत्त्वम् । 'सनाद्यन्ताः- इति धानुत्वाल्लडादि। मयटकाम्यचोस्त्रतसावित्यादिपरिगणितेष्वनन्तर्भावात्तसिलादिष्विति पुंवत्त्वमत्र न स्यादिति भाव । तद्धितवृत्तौ उदाहरणान्तरमाह-सर्वकभार्य इति । समासवृत्तिरेवैषा । सर्वप्रिय इति । सर्वा प्रिया यस्येति विग्रहः । समासवृत्तिरियम् । प्रियादिपर्युदासो रूपवतीप्रिय इत्यादौ उपयुज्यत इति भावः । वस्तुतस्तु एकशब्दे अकच्प्रत्यये 'प्रत्यस्थात्-' इति इत्त्वे एकिका, जश्त्वं भवति । एवं च पदसंज्ञया भसंज्ञाया बाधाद् 'भस्याढे-' इत्यस्याप्रवृत्त्या वार्तिके छमग्रहणं कृतम् । भाष्यकारेष्टयेति । अनेन सूत्रवार्तिकयोरुक्तिसंभवो ध्वनितः । उत्तरं दृष्ट्वा पूवस्थाप्रवृत्तत्वात् । निष्कर्षे तु व्यर्थमेवेत्याह-तार्थत्वादिति । इष्टेरुदाहरणान्याह-सर्वमय इत्यादिना । 'तत आगतः' इत्यर्थे 'मयड्वा-' इति मयट् । तमिलादिषु मयडादरपरिगणितत्वात्तेनेदं न सिध्यतीति भावः । सर्वकभार्य इति । न २ . पुंवत्-' इति सूत्रेण गतार्थता, 'न कोपधायाः' इति निषेधात् । न चास्यापि तेन निषेधः शङ्कयः । 'स्त्रियाः पुंवत्-' इत्यादिप्रकरणोक्तस्यैव तेन निषेधात् । अस्या इष्टेस्तु तस्मिन् प्रकरणे असमाविष्टत्वात् । न च वृत्त्यन्तर्गतस्य सर्वनामत्वाभावात्पुंवद्भावो न भवेदिति वाच्यम् । वचनारम्भसामर्थ्याद् मात्रग्रहाद्वा कचित्सर्वनामत्वेन दृष्टानां संप्रति संज्ञाभावेऽपि पुंवद्भावाभ्युपगमात् । श्रतएवोत्तरपूर्वाय इत्यत्र संज्ञाभावेऽपि पुंवद्भावः। सर्वा नाम काचित् , तस्याः पुत्रः सर्वापुत्र इत्यत्र तु नातिप्रसङ्गः, संज्ञोपसर्जनयोः सर्वादिगणबहिभूतत्वेन वृत्तेः पूर्वमप्यसर्वनामत्वात् । सर्वप्रिय इति । 'स्त्रियाः पुंवत्-' इत्यत्र