________________
१४६ ] सिद्धान्तकौमुदी। [बहुवीहिसमास परिभाषया पत्युत्तरपदलक्षणो एय एव, न स्वण् । शिवादी रूढयोरेव ग्रहणात् । सापत्यः । 'ठक्छसोश्च' (वा ३६२६) भवत्याश्छात्रा भावत्काः, भवदीयाः। एतद्वार्तिकं 'एकतद्धिते च' (सू १०००) इति सूत्रं च न कर्तव्यम् , 'सर्वनानो इति एय एवेत्यन्वयः । ननु सपत्नीशब्दो न पत्युत्तरपद इत्यत अाह-लिङ्गविशिष्टपरिभाषयेति । एवशब्दस्य व्यावर्त्यमाह-न त्वणिति । ननु ण्यप्रत्ययस्यापि शिवाद्यण अपवाद इत्यत आह-शिवादी रूढयोरेवेति । सपनशब्दः शत्रौ केवलरूढः । विवाहनिबन्धनं पतिशब्दमाश्रित्य प्रवृत्तस्तु योगरूढः, विव हकतरि पाति रक्षतीति योगस्यापि सत्त्वात् । स्वामिपर्यायं तु पतिशब्दमाश्रित्य प्रवृतः केवलयौगिकः । शिवादौ रूढयोरेव ग्रहणम् , न तु केवलयौगिकस्य, योगाद् रूढेर्बलवत्त्वादिति भावः । ततः किमित्यत आह-सापत्य इति । स्वामिपर्यायपतिशब्दघटित पत्नीशब्दस्य भाषितपुंस्कत्वात् पुंवत्त्वे सति डीनत्वयोनिवृत्तौ 'यस्येति च' इतीकारतोपः । सापत्य इति रूपमित्यर्थः । ठक्छसोश्चेति । वार्तिकमेतत् । एतयोः परतः पुंवत्त्वं वक्तव्यमिति शषः । अभत्वादप्राप्तौ वचनम् । भावत्काः , भवदीया इति । 'तस्येदम्' इत्यधिकारे 'भवतष्ठक्छसौ' इति भवतीशब्दात् ठक्छसौ, लिङ्गविशिष्ट स्यापि ग्रहणात् । तऋठकि इकादेशात्प्राक् ठावस्थायामेव पुंवत्त्वे इकादेशं बाधित्वा 'इसुसुक्तान्तात् कः' इति कादेशः । न च इकादेशे सति भत्वाद् 'भस्याढे तद्धिते' इति पुंवत्त्वे कृते.इकस्य स्थानिवत्त्वेन ठक्त्वाद् ‘इसुसुक्कान्तात्-' इति कादेशे भावत्क इति रूपसिद्धौ किं ठग्नहणेनेति वाच्यम् , इकादेशे कृते हि मथितं पण्यमस्य माथितिक इत्यत्रेव अल्विधितया स्थानिवत्त्वाभावेन संनिपातपरिभाषया कादेशानापत्तेः, अतष्ठग्ग्रहणम्। भवतीश ब्दाच्छसि तु 'मिति च' इति पदत्वेन भत्वस्य बाधाद् 'भस्याढे-' इत्यप्राप्ते पुंवत्त्वे अनेन पुंवत्त्वम् । एतदिति । 'ठक्छसोश्च' इति वार्तिकमित्यर्थः । एकतद्धिते सति च पुंवद्भावे नकारादेशाभावात्सापत इति स्यात् । आद्यस्य तु पुंवद्भावेऽपि सापन इत्येव भवतीति भावः । रूढयोरेवेति । श्राद्यः शब्दो रूढः, द्वितीयस्तु योगरूढः, तेन 'समानः पतिर्यस्याः' इति विग्रहो न विरुध्यत इति दिक् । ठक्छसोश्चेति । अभत्वार्थ आरम्भः । भावत्का इति । 'भवतष्ठक्छसौ' डावस्थायामेव पुंवद्भावे कृते 'ठस्येकः' इति इकादेशं बाधित्वा तान्तलक्षणः कादेशः । नन्विकादेशे भत्वाद् ‘भस्याढे-' इति पुंवद्भावे सति कादेशप्रवृत्त्या रूपसिद्धौ किमत्र ठग्ग्रहणेन । मैवम् , मथितं पण्यमस्य माथितिक इत्यत्रवाल्विधित्वेन स्थानिवद्भावायोगात्सन्निपातपरिभाषया वा कादेशप्रवृत्तेदुर्लभत्वात् । अतः 'ठक्छसोः-' इति ठग्ग्रहण कर्तव्यमेव । भवदीया इति । छसः सित्करणात् 'सिति च' इति पदसंज्ञा । तेनात्र