________________
प्रकरणम् १६] बालमनोरमा-तत्त्वबोधिनीसहिता। [१४५ अस्य स्वातीपाकस्य पानेयः । सपतीशब्दनिधा। शत्रुप-यात्सपनशब्दामा रवादिस्वाद कीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रिख नित्यत्रीलिङ्गो द्वितीयः । सामिपर्यायपतिशम्देन भाषितपुंस्कस्ततीयः । भाषयोः शिवायण् । सपत्न्या अपत्यं सापनः । तृतीयात्तु लिङ्गविशिष्टदेवता अस्येत्यर्थे 'अग्ने ढक' इति ढक । प्रातिपदिकग्रहणे लिविशिष्टस्यापि ग्रहणात् । ततो ढस्य एयादेशः, पुंवत्त्वे सति डीबैत्वनिवृत्तौ अग्नि एय इति स्थिते 'यस्येति च' इति इकारलोपे आदिवृद्धौ आमेय इति रूपम् । पुंवत्त्वनिषेधे तु आग्मायेय इति स्यादिति भावः । वस्तुतस्तु अग्मित्वं पुंसि प्रवृत्तिनिमित्तम् , स्त्रियां तु अग्निसंबन्ध इति प्रवृत्तिनिमित्तभेदादेवात्र न पुंवत्त्वमिति बोध्यम् । सपत्नीशब्दस्त्रिधेति । व्युत्पादनभेदादिति शेषः । शत्रुपर्यायादिति । 'रिपौ वैरिसपत्नारिद्विषवेषणदुहृदः' इति कोशादिति भावः । अयं भाषितपुंस्कः । विवाहनिबन्धनमिति । विवाहजनितसंस्कारविशषनिमित्तकमित्यर्थः । 'पतित्वं सप्तमे पदे' इत्यादिस्मरणादिति भावः । आश्रित्येत्यनन्तरं प्रवृत्त इति शेषः । समानः पतिः यस्या इति बहुव्रीहिः । 'नित्यं सपल्यादिषु' इति निपातनात् सभावः, डीब् नत्वं च । नित्यस्त्रीलिङ्ग इति । अन्य पदार्थस्य स्त्रीत्वे सत्येव विवाहनिबन्धनपतिशब्दस्य सभावा. दिविधानादिति भावः । 'पति म धवः' इति कोशादिति भावः। प्राद्ययोरिति । शत्रुपर्यायं सपत्नशब्दं विवाहनिबन्धनं पतिशब्दं चाश्रित्य प्रवृत्तयोः सपत्नीशब्दयोरित्यर्थः । सापत इति । सपत्न्या अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा 'स्त्रीभ्यो ढक्' इति ढकि प्राप्ते 'शिवादिभ्योऽण' इत्यणि आयस्य सपनीशब्दस्य भाषितपुंस्कतया पुंवत्त्व छीपो निवृत्तौ सापत्न इति रूपम् । न तु नकारस्यापि निवृत्तिः, शत्रुपर्यायसपत्नशब्दस्य अव्युत्पन्नप्रातिपदिकतया तत्र नकारस्य स्त्रीत्वनिमित्तकत्वामावात् । द्वितीयस्य तु सपत्नीशब्दस्य डीनत्वाभ्याम् उत्पन्नस्य शिवाणि कृते भाषितपुं. स्कत्वाभावाद्न पुंवत्त्वम्, किंतु डीपो 'यस्येति च' इति लोपे सापन इति रूपम् । सति तु पुंवत्वे डीजकारयोः निवृत्ती सापत इति स्यात् । तृतीयात्त्विति । खामिपर्यायं पतिशब्दमाश्रित्य प्रवृत्तात् सपनीशब्दात् पत्युत्तरपदलक्षणो एय एवेत्यन्वयः । सपल्या अपत्यमित्यर्थे तस्यापत्यम्' इत्यणं बाधित्वा 'दित्यदित्यादित्यपत्युत्तरपदारण्य:'
आग्नेय ति । पुंवद्रावाभावे तु प्रामायेय इति स्यादिति भावः । शत्रुपर्यायादिति । अत्र च 'ध्यन् त्सपने' इति निर्देशो लिगम् । रिपो वैरिसपनारिद्विषद्द्वेषणदुहृदः' इत्यमरः । विवाहनिवन्धनमिति । तजन्यसंस्कारविशेषविशिष्टे रूढमित्यर्थः । सापत इति । प्रभाषितपुंस्कत्वाद् द्वितीयस्य पुंवद्भावो न भवति ।