________________
प्रकरणम् २७] बालमनोरमा-तत्त्वबोधिनीसहिता। [३४६ स्थण्डिले शेते स्थाण्डिलो भिन्नुः । १२१७ संस्कृतं भक्षाः । (४-२-१६) सप्तम्यन्तादरस्यात्संस्कृतेऽर्थे, यत्संस्कृतं भक्षाश्चेत्ते स्युः । भ्राष्ट्रे संस्कृता भ्राष्ट्रा यवाः। श्रष्टसु कपालेषु संस्कृतोऽष्टाकपालः पुरोडाशः। १२१८ शूलोखाद्यत् । (४-२-१७) अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः। तस्यां संस्कृतमुख्यम् । १२१६ दध्नष्ठक् । (४-२-१८) दनि संस्कृतं दाधिकम् । १२२० उदश्वितोऽन्यतरस्याम् । (४-२-१६) ठक्स्यात् । पक्षेऽण् । १२२१ इसुसुक्तान्तात्कः । (७-३-५१) इस् उस् उक् त् एतदन्ता. व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यथः । संस्कृतं भक्षाः। भक्ष्यन्त इति भक्षाः, कर्मणि घन् । तत्रत्यनुवर्तते। तदाह-सप्तम्यन्तादिति । एकवचनं बहुवचनं च सामान्याभिप्रायम् , 'जात्याख्यायामेकस्मिन्बहुवचनम्-'इत्युक्तरित्यभिप्रेत्याह यत्संस्कृतं भताश्चेत्त स्युरिति । संस्कारो नाम पाकादिना गुणविशेषाधानम् , अष्टाकपाल इति । 'तद्धितार्थ-' इति समासः । भक्षा इति किम् ? पुष्पपुटे संस्कृतं वस्त्रम् । शूलोखाद्यत् । समाहारद्वन्द्वात्पञ्चमी । 'तत्र' इति 'संस्कृतं भक्षा' इति चानुवर्तते । सप्तम्यन्ताच्छूलशब्दादुखाशब्दाच 'संस्कृतं भक्षाः' इत्यर्थे यत् स्यादि. त्यर्थः । उखा पात्रविशेष इति । 'पिठरं स्थाल्युखा कुण्डम्' इत्यमरः । दध्नष्ठक । सप्तम्यन्नाद्दधिशब्दात् संस्कृतं भक्षा इत्यर्थे ठक् स्यादित्यर्थः । अणोऽपवादः । दाधिकामिति । ठकि इकादेशे 'यस्येति च' इति इकारलोपः । इह दध्नि अधि. करणे संस्कारो लवणादिना भवति । प्राग्वहतेरित्यत्र तु 'संस्कृतम्' इति तृतीयान्ताद् ठग्वक्ष्यते । उदश्वितोऽन्यतरस्याम् । ठक् स्यादिति । शेषपूरणमिदम् । स्थण्डिलात् । व्रतं शास्त्रेण विहितो नियमः, तस्मिन्समुदायेन गम्ये सप्तम्यन्ताद्यथाविहितः प्रत्ययो भवति शयितर्यर्थे । अष्टाकपाल इति । 'द्विगोलुंगनपत्ये' इत्यणो लुक् । शूलोखात् । 'संस्कृतं भक्षाः' इत्यनुवर्तते । कथम् 'उख्योग्निः' इति । न ह्यसौ भक्ष इति चेत् । अत्राहुः-दिगादित्वाद्भावार्थे यदिति। दनष्ठक् । दधीति। संस्कारस्त्विह लवणादिना, दधि त्वधिकरणमात्रम् । यस्तु 'प्राग्वहतेः' इत्यत्र 'संस्कृतम्' इति ठग्वक्ष्यते स तृतीयान्ताद्वोध्यः । तेन दना संस्कृतमपि दाधिकमेव । इसुसुक्लान्तात् । 'तात्' इत्युक्तेऽप्यङ्गविशेषणेनैव तान्तादिति लब्धे अन्तग्रहणं प्रत्ययोपदेशकाल यस्तान्तस्तस्मात्परस्य ठस्य कादेशो यथा स्यादित्येवमर्थम् । तेन 'माथितिकः' इत्यत्र ठस्य इकादेशे 'यस्य-' इति लोपे च कृते तान्तत्वेऽपि इकस्य कादेशो न भवतीति 'ठस्येकः' इति सूत्रे कैयटः । संनिपातपरिभाषयैव इकस्य कादेशो न स्यादित्यन्तग्रहणं त्यक्तुं शक्यमित्यन्ये । उदश्विदिति । श्वयतेः क्विपि तुक्