________________
३५० ]
सिद्धान्तकौमुदी । [तद्धितेषु चातुरर्थिक
त्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धते इत्युदश्वित् । तत्र संस्कृतः, श्रश्विक:, श्रदश्वितः । इसुसोः प्रतिपदोक्तयोर्ग्रहणान्नेह । श्राशिषा चरत्याशिषिकः । उषा चरति औौषिकः । 'दोष उपसंख्यानम्' ( वा २०५१ ) दोर्भ्यां चरति दौष्कः । १२२२ क्षीराड्ढञ् । ( ४-२ -२० ) अत्र संस्कृतम् इत्येव सम्बध्यते, न तु भक्षा इति । तेन यवाग्वामपि भवति । चौरेयी । १२२३ सास्मिन्पौर्णमासीति । ( ४-२-२१ ) इतिशब्दात् 'संज्ञायाम्' इति लभ्यते । पौषी पौर्णमास्यस्मिन्पौषो मासः । १२२४ आग्रहायण्यश्वत्थाट्ठक् । उक्तविषये उदश्विच्छन्दाट्ठग्वा स्यादित्यर्थः । इसुसुक्तान्तात्कः । इसुसुक्ताः अन्ता यस्येति विग्रहः । तकारादकार उच्चारणार्थः । ठस्य कः स्यादिति । ठकि ककार इत्, अकार उच्चारणार्थः, ठकारस्य शिष्टस्य ककार आदेश इति 'ठस्येकः' इत्यत्रोक्तम् । श्वयतीत्यस्य विवरणम् - वर्धते इति । 'टु प्रो श्वि गतिवृद्धयोः' इति धातुरिह वृद्धधर्थक इति भावः । उदश्विदिति । क्विपि तुक् । 'उदकस्योदः संज्ञायाम्' इत्युदादेशः । 'तकं ह्यदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम्' इत्यमरः । प्रतिपदोक्तयोरिति । इस्प्रत्ययस्य उस्प्रत्ययस्य च उणादौ प्रतिपदोक्तयोरिह ग्रहणमित्यर्थः । यथा सार्पिष्कः, धानुष्कः इति । आशिषिक इति । चरतीति ठक् । शासुधातोः किपि 'आशासः कौ -' इत्युपधाया इत्त्वम् । उषा चरति श्रौषिक इति । वसधातोः क्विपि सम्प्रसारणे उषेति तृतीयान्तम् । 'शासिवसिघसीनां च' इत्युभयत्र षत्वम् । दोष इति । दोषशब्दात् ठस्य कः स्यादित्यर्थः । दौष्क इति । तरतीति ठक् । क्षीराढ्ढञ् । क्षैरेयीति । क्षीरे संस्कृता यवागूरित्यर्थः । भक्षग्रहणानुवृत्तौ त्विह न स्यात् यवाग्वाः पेयत्वेन खाद्यत्वाभावात् । सास्मिन्पौर्णमासीति । 'तत्र' इति, 'संस्कृतं भक्षाः' इति च निरृत्तम् । सा पौर्णमासी श्रस्मिन्नित्यर्थे प्रथमान्तात्प्रत्ययः स्यादित्यर्थः । इतिशब्दादिति । एतच्च भाष्ये स्थितम् । पौषीति । पुष्येण युक्ता पौषी पौणमासी, सा यस्मिन्मासे स पौषो मासः । पौषीशब्दादणि 'यस्येति च' इति इकारलोपः । एवं मघाभिर्युक्ता पौणमासी माघी, सा यस्मिन्स माघो मासः । तथा 'उदकस्योदः -' इत्युदादेशः । इहैव निपातनात्संप्रसारणाभावः । सास्मिन् । सेति प्रथमान्तादस्मिन्निति सप्तम्यन्तार्थे प्रत्ययः स्याद्यः प्रथमान्तार्थः स चेत्पौर्णमासी भवति । इति शब्दादिति । स हि लौकिकीं विवक्षामनुसारयति । वृत्तिकृता तु सूत्रे एव ‘संज्ञायाम्' इति प्रक्षिप्तम् । पौर्णमासीति । पूर्णो मासोऽस्यां तिथाविति बहुव्रीहौ प्रज्ञादित्वात्स्वार्थिकोऽणिति हरदत्तादयः । ' तदस्मिन्वर्तते' इत्यधिकारे