________________
प्रकरणम् २७] बालमनोरमा तत्त्वबोधिनीसहिता। [३५१ (४-२-२२) अग्रे हायनमस्या इत्याग्रहायणी । प्रज्ञादेराकृतिगणवादण् । 'पूर्वपदात्संज्ञायाम्-' (सू ८५७) इति णत्वम् । प्राग्रहायणी पौर्णमास्यस्मिनाग्रहायणिको मासः। अश्वत्थेन युका पौर्णमास्यश्वत्थः । निपातनात्पौर्णमास्यामपि लुप् । श्राश्वस्थिकः । १२२५ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः। (४-२-२३) एभ्यष्टग्वा । पक्षेऽण् । फाल्गुनिकः, फाल्गुनो वा मासः । श्रावणिकः, श्रावणः । कार्तिकिकः, कार्तिकः । चैत्रिकः, चैत्रः । १२२६ साऽस्य देवता । (४-२-२४) इन्द्रो देवता अस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता, मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः। 'आग्नेयो वै ब्राह्मणो देवतया' इति तु शैषिकेऽर्थे 'सर्वनाग्नि-' फाल्गुन इत्यादि । संज्ञायां किम् ? पौषी पौर्णमासी अस्मिन्पञ्चदशरात्रे । आग्रहायएयश्वत्थाट्टक् । पूर्वसूत्रविषये आग्रहायणीशब्दादश्वत्थशब्दाच ठक् स्यादित्यर्थः । अणोऽपवादः । हायनमिति । संवत्सर इत्यर्थः । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री' इत्यमरः । यस्या ऊर्ध्व संवत्सरस्यारम्भः सा पौर्णमासी
आग्रहायणीत्यर्थः । तर्हि आग्रहायणेति स्यादित्यत आह-प्रज्ञादेरिति । 'प्रज्ञादिभ्यश्च' इति स्वार्थे अणि 'टिड्ढ-' इति डीबित्यर्थः। अश्वत्थेनेति । अश्विनीनक्षत्रेणेत्यर्थः । अश्वत्थ इति । नक्षत्राणः 'लुबविशेषे' इति लुबिति भावः । ननु 'विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः' इति निर्देशेन पौर्णमास्यां 'लुबविशेषे, इत्यस्याप्रवृत्तेरुकत्वात् कथमिह लुबित्यत आह-निपातनात्पौर्णमास्यामपि लुबिति । तथा च पौर्णमास्यां लुब् नेति ज्ञापनमेतद्यतिरिक्तविषयमिति भावः । विभाषा फाल्गुनी । एभ्यष्ठग्वेति । 'सास्मिन्-' इत्युक्तविषये इति शेषः । फाल्गुनिकः फाल्गुनो वा मास इति । फाल्गुनी पौर्णमास्य. स्मिन्निति विग्रहः । एवं श्रावणिक इत्यादि । इति युक्ताद्यर्थकाः।
साऽस्य देवता । अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः । ऐन्द्रं हविरिति । इन्द्रात्मकदेवतासम्बन्धीत्यर्थः । पाशुपतमिति । पशुपतिर्देवता अस्येति विग्रहः । ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्र्यमित्याद्यनुपपन्नमित्यत आह-त्यज्यमानद्रव्ये उद्देश्य. विशेषो देवतेति । हविश्शेषमृत्विग्भ्यो ददाति, विप्राय गां ददाति इत्यादौ ऋत्विग्विप्रादेर्दैवतात्वव्यावृत्तये विशेषग्रहणम् । त्यज्यमानहविस्साध्यः अस्मदाद्य'पूर्णमासादण वक्तव्यः' इति वार्तिकं न कर्तव्यमिति तदाशयः । सास्य । 'सेति प्रकृतं संज्ञासम्बद्धम्-' इति पुनः साग्रहणं कृतमित्याहुः । इहैव सूत्रे निपातनाद्देव