________________
३५२ ] सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक(वा २६८६ ) इति ढक् । १२२७ कस्येत् । (४-२-२५) कशब्दस्येदादेशः स्यात्प्रत्ययसंनियोगेन । 'यस्य-' (सू ३११) इति लोपात्परत्वादादिवृद्धिः । को ब्रह्मा देवता अस्य कायं हविः । श्रीदेवता अस्य श्रायन् । १२२८ शुक्राद्धन् । प्रत्यक्षः यस्तृप्त्याद्युपकारः तदाश्रयो देवतेति यावत् । मन्त्रस्तुत्या चेति । 'अग्निमीडे पुरोहितम्' इत्यादिमन्त्रषु यज्ञपुरोहितत्वादिगुणविशिष्टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः । ऐन्द्रो मन्त्र इति । इन्द्रस्तुत्यको मन्त्र इत्यर्थः । ननु ‘आग्नेयो वै ब्राह्मणो देवतया' इत्यत्र कथं देवतातद्धित । अत्र अनर्हविरुद्देश्यत्वस्य मन्त्रस्तुत्यत्वस्थ चाभावादित्यत आह-आग्नेयो वै इति । शैषिकेऽर्थ इति । शेषे इति सूत्रलब्धे तदभिमानिकत्वे गम्ये इत्यर्थः । अग्निर्नाम यो देवताजातिविशेषो लोकवेदसिद्धः तदभिमानिको ब्राह्मण इति बोधः। कस्येत् । प्रत्ययसंनियोगेनेति । 'साऽस्य देवता' इति विहिते व शब्दादराप्रत्यये परे तत्सन्नियोगेन प्रकृतेरिकारोऽन्तादेश इत्यर्थः। तथा च कशब्दादणि प्रकृतेरिकारे अन्तादेशे वृद्धौ आयादेशे कायमिति सिद्धम् । तत्र कि अ इति स्थिते 'यस्येति च' इति इकारलोपमाशङ्कयाह—यस्येति लोपात्परत्वादादिवृद्धिरिति । कशब्दस्य विवरणं ब्रह्मेति । यद्यप्यत्र इत्त्वविधिबलादेव लोपो न भवतीति भाष्यम् । तथापि वस्तुस्थितिकथनमिदम् । तस्य प्रयोजनमाह-श्रीर्देवता अस्य श्रायं हविरिति । अत्रेदमवधेयम् । 'कस्येत्' इत्यत्र कशब्दस्य अकारान्तस्य षष्ठयेकवचनमित्येकः पक्षः । सर्वादिगणपठितस्य किंशब्दस्य षष्ठ्येकवचनमिति पक्षान्तरम् । तत्राद्यपक्षे हविःप्रचारे 'कायानुब्रूहि' इति प्रैष इति निर्ववादम् , सर्वादि. गणबहिर्भूतत्वेन स्मभावासंभवात् । द्वितीयपक्षे तु किंशब्दस्य प्रजापतिनामत्वेन असर्वनामत्वान्न स्मैभावः, अन्वर्थसंज्ञाबलेन एकार्थवृत्तेः संज्ञाशब्दस्य सर्वनामत्वाभावात् । तथा च 'कायानुब्रूहि' इत्येव प्रैषः । यद्वा प्रजापतेः सर्वात्मकत्वेन तन्नाम्नः किंशब्दस्य सर्वनामत्वात् 'कस्मा अनुब्रूहि' इत्यैव संप्रैष इति भाष्ये प्रपञ्चितम् । एवं च विष्णुसहस्रनामसु 'विश्वं विष्णुः' इति, ‘एको नैकः नवः कः किं यत्तस्पदमनुत्तमम् ।' इति च पठितविश्वादिशब्देष्वप्ययं न्यायस्तुल्य :। तथा च विश्वस्मै नमः, विश्वाय नम इत्यादि प्रयोज्यमित्यास्तां प्रासङ्गिकम् । शुक्राद्धन् । शब्दात्स्वार्थे तल् । मन्त्रस्तुत्येति । मन्त्रेण स्तुत्या । 'एतिस्तुशास्-' इत्यादिना क्यपि तुक् टाप् । आग्नेयो वै ब्राह्मण इति । इहाग्न्युद्देशेन ब्राह्मणो न त्यज्यत इति कथमयं प्रयोग इति न शङ्कयमिति भावः । परत्वादादिवृद्धिरिति । इदं च समाधानं श्रायमित्यत्रावश्यकमिति तेनैव परिहारसम्भवादित्वविधानसामर्थ्य