________________
प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५३ (४-२-२६) शुक्रियम् । १२२६ अपोनप्त्रपांनप्तृभ्यां घः। (४-२-२७) अपोनस्त्रियम्, अपानस्त्रियम् । अपोनपात्, अपांनपाच देवता।प्रत्ययसंनियोगेन तूक्तं रूपं निपात्यते । अत एव 'अपोनपाते अपांनपातेऽनुबहि' इति प्रैषः । १२३० छ च। (४-२-२८) योगविभागी यथासंख्यनिवृत्त्यर्थः । अपोनप्नीयम्, अपांनप्त्रीयम् । (छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसंख्यानम्' (वा २७०१) । पैङ्गाक्षीपुत्रीयम् । तार्णबिन्दवीयम् ) । 'शतरुद्राद्धश्च' (वा २७०२) । चाच्छः । शतं रुद्रा देवता अस्य शतरुद्रियम्, शतरुद्रीयम् । घच्छयोर्विधानसामर्थ्याद् 'द्विगोलुंगनपत्ये' (सू १०८०) इति न लुक् । १२३१ महेन्द्राद्धाणौ च । (४-२-२६) चाच्छः । महन्द्रियम् हविः, माहेन्द्रम्, महेन्द्रीयम् । १२३२ सोमायण् । (४-२-३०) सौम्यम् । टित्वान्डीप्, सौमी ऋक् । १२३३ वाय्वृतुपित्रुषसो यत् । (४-२-३१) 'साऽस्य देवता' इत्यर्थे इति शेषः। शुक्रियमिति । शुको देवता अस्येति विग्रहः । अपोनप्त्रपांनप्तृभ्यां घः। प्रत्ययसंनियोगेनेति । घप्रत्ययसंनियोगेन अपोनपाच्छब्दस्य अपोनप्तभावः, अपांनपाच्छब्दस्य अपांनप्तृभावश्च निपात्यत इत्यर्थः । अत एवेति । घप्रत्ययसंनियोगेनैव उक्तादेशविधेरित्यर्थः । अत्र घप्रत्ययाभावानोक्तादेशाविति भावः । छ च । उक्तविषये छोऽपीत्यर्थः । ननु अपोनप्त्रपांनप्तृभ्यां घच्छौ इत्येवास्तु। तत्राह-योगविभाग इति । पैङ्गाक्षीपुत्रीयमिति । पैङ्गाक्षीपुत्रो देवता अस्येति विग्रहः । तार्णाबिन्दवीयमिति । तार्णबिन्दुः देवता अस्येति विग्रहः । शतरुद्राद्ध श्चेति । वार्तिकमिदम् । शतरुद्रियमिति । घस्य इयादेशः । शतरुद्रीयमिति । छस्य ईया. देशः। उभयत्र 'तद्धितार्थ-' इति द्विगुसमासः । “द्विगो गनपत्ये' इति लुकमाशङ्कयाह-घच्छयोरिति । महेन्द्राद्धाणौ च । महेन्द्रियमिति । महेन्द्रो देवता अस्येति विग्रहः। घस्य इयादेशः। माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति । छस्य ईयादेशः । सोमायण् । सौम्यमिति । सोमो देवता अस्येति विग्रहः । टित्त्वस्य प्रयोजनमाह-टित्त्वान्ङीबिति । सौमीति । सोमो देवता अस्या ऋच इति विग्रहः । डीपि 'हलस्तद्धितस्य' इति यलोपः। वावृतुमिह नाश्रितम् । उक्त रूपमिति । 'नपात्' इत्यस्य 'नप्त' इति रूपमित्यर्थः । शतं रुद्रा इति । शतशब्दोऽनन्तवचनः । सौमीति । 'हलस्तद्धितस्य' इति
१ कोष्ठकान्तर्गतः पाठो बहुत्र मूले नोपलभ्यते । बालमनोरमानुरोधादिह स्थाप्यते। २ क्वचिद् ‘घ च' इति शकारहितः पाठः।