________________
३५४ ]
सिद्धान्तकौमुदी। [तद्धितेषु चातुरर्थिक वायव्यम् । एवम् ऋतव्यम् । १२३४ रीडन्तः। (७-४-२७) अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीडादेशः स्यात् । 'यस्येति च' (सू ३११) पित्र्यम् । उषस्यम् । १२३५ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च । (४-२-३२) चाद्यत् । द्यावापृथिवीयम्, द्यावापृथिव्यम् । शुनासीरीयम्, शुनासीर्यम् । १२६ अग्नेर्डक् । पित्रुषसो यत् । वायु, ऋतु, पितृ, उषस् एभ्यो यदित्यर्थः । वायव्यमिति । वायुर्देवता अस्येति विग्रहः । यति ओर्गुणः । 'वान्तो यि-' इत्लवादेशः । एवम् ऋतव्यमिति । ऋतुः देवता अस्येति विग्रहः । रीतः । अङ्गस्येत्यधिकृतम् ऋता विशेष्यते, तदन्तविधिः । 'अयङ् यि क्ङिति' इत्यतो 'ये' इत्यनुवर्तते । 'अकृत्सार्वधातुकयोः-' इत्यतः 'अकृत्सार्वधातुकयोः' इति 'च्वौ च' इति सूत्रं च तदाह-अकृदित्यादिना । पित्र्यमिति । पितरो देवता अस्टेति विग्रहः । यति पितृशब्दस्य रीङ् । 'उिच्च' इत्यन्तादेशः। 'यस्येति च' इति ईकारलोपः । क्यचि पित्रीयतीत्यादौ 'अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' इति वचनाद् 'अकृत्सार्वधातुकयो:-' इति दीर्घ अप्राप्ते इकारोच्चारणम् । उषस्यमिति । उषो देवता अस्येति विग्रहः । भत्वेन पदत्वाभावात् सकारस्य न रुत्वादि । द्यावापृथिवी । द्यापृथिवी, शुनासीर, मरुत्वत् , अग्नीषोम, वास्तोष्पति, गृहमेध एतेभ्यः, छो यच्च स्य दित्यर्थः । अणः पत्युत्तरपदण्यस्य चापवादः । द्यावापृथिवीयम् , द्याव पृथिव्यमिति । द्यावापृथिवी देवता अस्येति विग्रहः । छस्य ईयादेशः । उभ पत्र 'यस्येति च' इति लोपः । शुनासीरीयमिति । शुनो वायुः, सीरः आदित्यः, शुनश्च सौरश्च शुनासीरौ । 'देवताद्वन्द्वे च' इत्यानङ् । शुनासीरावस्य स्तं इति शुनासीरः । 'वाय्वादित्यवानिन्द्रो विवक्षितः' इति वेदभाष्ये भट्टभास्करः, शुनासी देवता अस्येति विग्रहः । मरुत्वान् देवता अस्य मरुत्वतीयम् , मरुत्वत्यम् । अग्नीषोमौ देवता अस्य यलोपः । रीतः । अङ्गवृत्तपरिभाषया 'अकृत्सार्व-' इति दार्थो न प्रवर्तत इति दीर्घग्रहणमित्याहुः । यस्येति चेति । पित्रीयतीत्यत्र रीतिधिः सावकाश इति भावः । उषस्यमिति । उषस्शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां ब्रवीति । द्यावापृथिवी । अरण्योरपवादः । शुनासीरीयमिति । शुनश्च सीरश्चेति द्वन्द्वे 'देवताद्वन्द्वे च' इत्यानङ् । शुनो वायुः, सीर आदित्य इति यत्तिकृत् । हरदत्तस्तु शुनासीरशब्द इन्द्रस्य गुणवाचीत्यन्ये मन्यन्त इत्याह । तथा च मन्त्रः-'इन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहे' इति । मरुतो यस्य सन्तीति मरुत्वानिन्द्रः, मरुत्वतीयम् ,
१ 'षड्भ्यः ' इत्यधिकः पाठः क्वचित् ।