________________
प्रकरणम् २७ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५५ (४-२-३३) प्रारमेयम् । १२३७ कालेभ्यो भववत् । (४-२-३४) मासिकम् । प्रावृषेण्यम् । १२३८ महाराजप्रोष्ठपदाट्ठञ् (४-२-३५) माहाराजिकम् । प्रौष्ठपदिकम् । १२३६ देवताद्वन्द्वे च । (७-३-२१) अत्र पूर्वोत्तरपदयोरायचो वृद्धिः स्याद् मिति णिति किति च परे । श्राग्निमारुतम् । १२४० नेन्द्रस्य परस्य । (७-३-२२) परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । अग्नीषोमीयम् । वास्तुनः पतिः वास्तोष्पतिः रुद्रः । निपातनादलुक् षत्वं च । 'रुद्रः खलु वै वास्तोष्पतिः' इति ब्राह्मणम् । अमरस्तु इन्द्रपर्यायेषु 'वास्तोष्पतिः सुरपतिः' इत्याह । वास्तोष्पतिर्देवता अस्य वास्तोष्पतीयम् , वास्तोष्पत्यम् । गृहमेधो देवता अस्य गृहमेधीयम् , गृहमेध्यम् । अग्नेढक । आग्नेयमिति । प्राग्दीव्यती. येष्वर्थेष्वयम् । 'सर्वत्राग्निकलिभ्याम्-' इति वचनात् । कालेभ्यो भववत् । कालवाचिभ्यो भवेऽर्थे येन विशेषणेन ये प्रत्यया वक्ष्यन्ते, ते 'साऽस्य देवता' इत्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः। मासिकमिति । मासो देवता अस्येति विग्रहः कालाञ् । प्रावृषेण्यमिति । प्रावृड् देवता अस्येति विग्रहः । प्रावृष एण्यः । महाराजप्रोष्ठपदाट्ठञ् । माहाराजिकमिति । महाराजो वैश्रवणः, स देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः । वृत्तः 'साऽस्य देवता' इत्यधिकारः। अथ प्रासनिकम् । देवताद्वन्द्वे च । 'मजेर्वृद्धिः' इत्यतो 'वृद्धिः' इत्यनुवर्तते । 'अचो णिति' इत्यतो 'रिणति' इति, "किति च' इति सूत्रं चानुवर्तते । तद्धितेष्वचामादेः' इत्यतः 'अचा. मादेः' इति 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्यतः 'पूर्वपदस्य' इति, 'उत्तरपदस्य च' इति सूत्रं चानुवर्तते । तदाह-अत्रेत्यादिना । आग्निमारुतमिति । अग्निश्च मरुच्च अग्नामरुतो, 'देवताद्वन्द्वे च' इत्यानङ् । अमामरुतौ देवता अस्य आग्निमारुतम् । अणि अनेन उभयपदादिवृद्धिः । अलौकिके विग्रहवाक्ये एव आनडं बाधित्वा 'इद् वृद्धौ' इति इत्त्वम् । नेन्द्रस्य परस्य । 'देवताद्वन्द्वे च' इत्युक्ला उभयपदवृद्धिः उत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः । सौमेन्द्र इति। चरुमरुत्नत्यम् । अग्नीषोमीयम् , अग्नीषोम्यम् । 'ईदग्नेः सोमवरुणयोः' । वास्तुनः पतिः वास्तोष्पतिः । इहैव सूत्रे निपातनात्साधुः । 'वेश्मभूर्वास्तुरस्त्रियाम्' वास्तोष्पतीयं वास्तोष्पत्यम् । गृहमंधीयं गृहमेध्यम् । गृहमेधशब्दोऽकारान्तः। तथा च श्राश्वलायनः-'मरुभ्यो ग्रहमेधेभ्यः' इति । कालेभ्यो । कालवाचिभ्यो ये प्रत्यया भवार्थे वक्ष्यन्ते ते 'सास्य देवता' इत्यस्मिन्नर्थेऽननातिदिश्यन्ते । वत्करणं सर्वसादृश्यार्थम् । तेन यस्माद्यो विहितस्तस्मात्स एव भवति नान्यः। तथैवोदाहरति