________________
३५६ ] सिद्धान्तकौमुदी। [द्वितेषु चातुरर्थिकपरस्य किम्-ऐन्द्रामः । १२४१ दीर्घाच्च वरुणस्य । (७-३-२३) दीर्घास्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्धार किम्-श्रामिवारुणम् ।
आग्निवारुणीमनड्वाहीमालभेत । 'तदसिन्वतत इति नव यज्ञादिभ्य उपसंख्यानम्' (वा २७०६ )। नावयज्ञिकः कालः । पाकयज्ञिकः । पूर्णमासादण्वनव्यः' (वा २७०७) । पूर्णो मासोऽस्यां वर्तत इति पौर्णमासी तिथिः । १२४२ पितृव्यमातुलमातामहपितामहाः। (४-२-३६) एते निपात्यन्ते । 'पितुांतरि व्यत्' (वा २७०८)। पितुर्माता पितृग्यः । 'मातुर्दुलच्' (वा १७०८) मातुर्धाता मातुलः । 'मातृपितृभ्यां पितरि डामह' (वा २७०६)। मातुः पिता मातामहः । पितुः पिता पितामहः । 'मातरि षिक' (वा २७१०)। रिति शेषः। तैत्तिरीये 'सोमेन्द्रं श्यामाकं चरुम्' इति छन्दसम् । दीर्घाच वरुणस्य । ऐन्द्रावरुणमिति । इन्द्रावरुणौ देवता अस्येति निग्रहे द्वन्द्वः । आनङ् । इन्द्रावरुणशब्दादणि दीर्घाकारात्परत्वाद् वरुणस्य नादिवृद्धिः । प्राग्निवारुणमिति। 'इद् वृद्धौ' इत्यग्नेरानडं बाधित्वा इत्त्वे कृते दीर्घात्परत्वाभावान्निषेधाभावे सति 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिरिति भावः । इति प्रासङ्गिकम् । अथ प्रकृतम्तदस्मिन्निति । 'महाराजप्रोष्ठपदाठ्ठञ्' इति सूत्रे वार्तिकमिदम् । 'तदस्मिन्वर्तते' इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तम्यः ठा उपसंख्यान मेत्यर्थः । नावयशिकः काल इति । नवयज्ञो नूतनधान्यद्रव्यको यज्ञः - श्रापयणाख्यः स यस्मिकाले वर्तते स नावयज्ञिकः, आपयणकाल इति यावत् । पाकयज्ञिक इति । पाकयज्ञ औपासनाग्निसाध्यः पार्वणस्थालीपाकादिः, स यस्मिन्काले वर्तते स पाकयज्ञिकः । पूर्णमासादिति । तदस्मिन्वर्तत इत्यर्थे पूर्ण मासशब्दात्प्रथमान्तादण वक्तव्य इत्यर्थः । पूर्णो मासोऽस्यामिति । मासश्चन्द्रमाः पूर्णश्वासौ मासश्च पूर्णमासः, पूर्णचन्द्रः, स यस्यां तिथौ वर्तते सा पौर्णमासी तिथिरित्यर्थः । अणि 'टिड्ढाणञ्-' इति ङीप् । यद्यपि पूर्णो माः चन्द्रः पूर्णमाः, तस्येयमि. त्यर्थे 'तस्थेदम्' इत्यणि पौर्णमासीति सिद्धम् , तथापि ईदृश एकार्थे अयं साधुरिति भावः । पितृव्यमातुल । कस्मिन् अर्थे किं निपात्यत इत्यत शाह-पितुर्धातरि व्यदित्यादिना । मातुल इति । मातृशब्दाद् डुलचि :' इति टिलोपः । मातामह इति । मातृशब्दाद् डामहचि टिलोपः । एवं पितामहः । मातरि मासिकम् । प्रावृषेण्यमिति । 'कालाठ्ठञ् ।' प्रावृष एण्यः । डामहजिति । एतच्च वृत्त्याद्यनुरोधेनोक्तम् । भाष्ये तु आनादेशो महच प्रत्ययश्च निपात्यते ।
१ 'अर्थे' इत्यस्य स्थाने 'शब्दे' क।