________________
प्रकरणम् २७ ] बालमनोरमात्तत्त्वबोधिनीसहिता। [ ३५७ मातामही । पितामही । 'अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः' (वा २७१२)। सकारपाठसामर्थ्याच षः। अविसोढम् । अविदसम् । अविमरीसम् । 'तिलाशिष्फलास्पिअपेजौ' (वा २७१३) । तिलपिनः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः । 'पिञ्जश्छन्दसि डि' (वा २७१४) तिल्पितः । १२४३ तस्य समूहः । (४-२-३७) काकानां समूहः काकम् । बाकम् । १२४४ भिक्षादि. भ्योऽण् (४-२-३८) भिक्षाणां समूहो भैतम् । गर्भिणीनां समूहो गार्भिणम् । षिञ्चेति । मातृपितृभ्यां मातरि डामहच् , स च षिद्भवतीत्यर्थः । षित्त्वस्य फलं ङीषित्याह-मातामही, पितामहीति । अवेरिति । अवेर्दुग्धमित्यर्थे अविशब्दात् सोढ, दूस, मरीसच् एते प्रत्यया वक्तव्या इत्यर्थः । सोढसकारस्य प्रत्ययावयवत्वात् षत्वमाशक्याह-सकारपाठसामर्थ्यान्न ष इति । अन्यथा षोढ इत्येवोपदिशेदिति भावः । तिलादिति । तिलशब्द ओषधिविशेषे मुख्यः । तत्फले तु गौणः । तत्र यदा तिलशब्दो निष्फले ओषधिविशेषे वर्तते, तदा तस्मात्स्वार्थे पेज, पिञ्ज इति प्रत्ययौ स्त इत्यर्थः । इति देवतार्थकाः।
तस्य समूहः । 'इनित्रकव्यचश्च' इति यावदिदमनुवर्तते । अस्मिन्नर्थे प्रथमोच्चारितात् षठ्यन्तात्प्राग्दीव्यतीया अणादयो यथासम्भवं स्युरित्यर्थः । 'अचित्तहस्तिधेनोष्ठक' इत्याद्यपवादविषयं परिहृत्योदाहरति-काकम् । बाकमिति । समूहप्रत्ययान्तानां नपुंसकत्वं लोकात् । भिक्षादिभ्योऽण् । तस्य समूह इत्येव । भैक्षमिति । अत्र 'अचित्तहस्ति-' इति वक्ष्यमाणठगपवादोऽण् । तेनावग्रहः सिद्ध्यतीत्युक्तम् । सकारपाठेति । अन्यथा प्रक्रियालाघवाय षकारमेव पठेदिति भावः । एतच्च मनोरमायां स्थितम् । अन्ये तूक्तरीत्या अविसोढम्' इत्यत्र षत्वनिवारणेऽपि 'अविदूसम्' इत्यादौ स्यादेव षत्वम् । तत्र हि एयन्तात्विपि 'अविदूः' इत्यादिरूपसिद्धये सकारपाठसामर्थ्यस्योपक्षीणत्वात् । तस्माद् 'अविसोढम्' इत्यादिभाष्यकृदुदाहरणेषु सकारपाठसामर्थ्यादिति व्याख्येयमित्याहुः। तस्य समूहः । इह 'अचित्ता', 'अनुदात्तादेरम्', गोत्रान्ताद् वुञ्, 'केदारायश्च' इत्यादिना प्रतिपदं यादींश्च वक्ष्यति । तथा च चित्तवदायुदात्तमगोत्रान्तं प्रतिपदोक्तप्रत्ययरहितमिहोदाहरणमित्याशयेनोदाहरति-काकम् । बाकमिति । एवं वार्कम् । काकबकवृकशब्दाः 'प्राणिनां कुपूर्वाणाम्' इति फिट्सूत्रेणाद्युदात्ताः । प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्व तेषामुदात्तः स्यादिति सूत्रार्थः । 'अथादिः प्राक् शकटेः' इत्यधिकारात् । यत्तु वृत्तिन्यासयोः शौकमित्युदाहृतं तदुपेक्ष्यम् । खण्डिकादिषु शुकशब्दस्य पाठात्तत्राना भाव्यमिति हरदत्तादयः । भिक्षादिभ्योऽण् ।