________________
३५८ ] सिद्धान्तकौमुदी। [तद्वितेषु चातुरर्थिकइह 'भस्याढे-' इति पुंवद्भावे कृते । १२४५ इनण्यनपत्ये। (६-४-१६४) अनपत्यार्थेऽणि परे इन्प्रकृत्या स्यात् । तेन 'नस्तद्धिते' (सू १७६) इति टिलोपो न । युवतीनां समूहो यौवनम् । शत्रन्तादनुदात्तादेरनि यौवतम् । १२४६ गामिणमिति । गर्भशब्दान्मत्वर्थीये इन्प्रत्यये कृते 'प्रत्ययः' परश्च' 'पायुदात्तश्च' इति इकारस्य उदात्तत्वे 'अनुदात्तं पदमेकवजम्' इति शिष्टस्यानुदात्तत्वे गर्भिनशब्दः अनुदात्तादिः । ततो नान्तलक्षणीपि तस्य 'अनुदात्तौ सुप्पितौ' इत्यनुदात्तत्वे गर्भिणीशब्दोऽप्यनुदात्तादिरेव । ततः समूहेऽर्थे 'अनुदात्तादेर ज्' इति वक्ष्यमाणे अत्रि प्राप्ते भिक्षादित्वादणिति भावः । अणि प्रत्ययस्वरेण न्तोदात्तत्वम् । अनि तु 'नित्यादिनित्यम्' इत्यायुदात्तत्वमिति स्वरे विशेषः । शणि टिलोपाभावोऽपि प्रयोजनमिति दर्शयति-इह भस्येति । गर्भिणीशब्दादणि गति 'भस्याढे-' इति पुंवत्त्वेन डीपो निवृत्तौ गर्मिन् अ इति स्थिते 'नस्तद्धिते' इति टिगोपे प्राप्ते सतीत्यर्थः । इनण्यनपत्ये । इन् अणीति छेदः । प्रकृत्येति । 'प्रकृत्यैक च्' इत्यतस्तदनुवृत्तेरिति भावः। टिलोपो नेति । अनि तु प्रकृतिभावाप्रवृत्तेः टिलोपः स्यादिति भावः । यौवनमिति । 'कनिन्युषितक्षि-' इत्यौणादिककन्न्प्रित्ययान्तो नित्स्वरेणाद्युदात्तः । ततः स्त्रियां 'यूनस्तिः' इति तिप्रत्ययस्य प्रत्यर स्वरेणोदात्तत्वे सति शिष्टस्वरेण युवतिशब्दस्यानुदात्तादित्त्वादनि प्राप्ते भिक्षादित्वादणि कृते सति 'भस्याढे-' इति पुंवत्त्वे तिप्रत्ययस्य निवृत्तौ 'अन्' इति प्रकृतिभावाडिलोपाभावे यौवनमिति रूपम् । अनि तु प्रकृतिभावस्याप्रवृत्तेष्टि लोपः स्यादिति भावः । वस्तुतस्तु 'भस्याढे तद्धिते' इत्यस्य अढे तद्धिते विक्षिते सति ततः ग्रागेव पुंवदित्यर्थः । ततश्च तद्धितोत्पत्तेः प्रागेव युवतिशब्दस्य पुंवत्त्वे तेप्रत्ययस्य निवृत्ती युवन्शब्दस्य कनिन्प्रत्ययान्तस्य नित्स्वरेणाद्युदात्तत्वादनुदानादित्वाभावादअभावे भौमिति । अचित्तत्वाट्टक् प्राप्तः । गाभिणमिति । अनुदात्तादित्वाद प्राप्तः । सति हि तस्मिन्नायुदात्तटिलोपौ स्याताम् । न च 'भस्याढे-' इति पुंवाचकरूपातिदेशान्न टिलोपः स्यादिति वाच्यम् । हस्तिनीनां समूहो हास्तिकमित्यत्रापि टिलोपानापत्तेः । तस्मात् स्त्रीप्रत्ययनिवृत्तिमानपरं तत्, न तु रूपातिदेशकमिति बोध्यम् । यौवनमिति । युवतिशब्दस्यानुदात्तादित्वादनि प्राप्ते अणर्थमित् पाठः। पुंवद्भावात्तिप्रत्यनिवृत्तिः । 'अन्' इति प्रकृतिभावः । ननु भस्याढे-' इत्यत्र 'अढे तद्धिते विवक्षिते पुंवद्भावः' इत्यभ्युपगमात्तद्धितोत्पत्तेः प्रागेव तिप्रत्ययनिवृत्तौ सत्यां 'कनिन्युवृषि-' इति कनिनन्ततया आद्युदात्तत्वादण् सिद्ध एवेति चेत् । सत्यम् , अतएव भाष्ये भिक्षादिषु युवतिशब्दपाठः प्रत्याख्यातः । 'इह युवतिशब्दप ठसामर्थ्यात्पुंवद्भावो